HPCM : ६,००० निराश्रितबालेभ्य: वैधानिक-अधिकार-प्रदाता हिमाचलं प्रथमं राज्यम्
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशः देशस्य प्रथमं राज्यं यत् राज्यस्य ६,००० तः अधिकेभ्य: निराश्रितबालेभ्य: वैधानिक-अधिकार-प्रदाय, तान् ‘राज्यस्य बालकाः’ इति रूपेण स्वीकृतवन्त: । राज्यसर्वकारेण निराश्रितबालानां सम्माननीयं जीवनं प्रदातुं दायित्वं स्वीकृतम् अस्ति। एतेषां बालकानां शिक्षणव्ययेन सह प्रतिमासं ४००० रूप्यकाणि कोषधनरूपेण सर्वकारः प्रदाति। एतदतिरिक्तं भूमिहीनानां निर्धनबालानां कृते गृहनिर्माणार्थं त्रिविश्वामिताभूमिः, गृहनिर्माणार्थं ३ लक्षरूप्यकाणि, स्टार्ट-अपपरियोजनायै २ लक्षरूप्यकाणि, विवाहव्ययार्थं २ लक्षरूप्यकाणि च आर्थिकसहायतां प्रदत्तानि सन्ति।
शनिवासरे शिमलायां वेदविहार- पब्लिकस्कूल-एजुकेशनल-सोसायटी इत्यस्य अध्यक्ष के.एस. श्रीकोट: मुख्यमंत्री-सुखाश्रयकोषाय १,५४,०८,६५७ रुप्यकाणां सहायताराशि: चैकमाध्यमेन अददत्। एतस्याः राश्याः अतिरिक्तं ११० उत्पीठिका:, १६ काष्ठपेटिकाः, ८४ आसन्दा:, त्रीणि वाद्ययन्त्राणि, विविधानि ज्ञानप्रदायकानि पुस्तकानि च समित्या प्रदत्तानि। अस्य उदारयोगदानस्य कृते मुख्यमन्त्री समित्या: आभारं प्रकटितवान् । एतेन समाजस्य सम्पन्नवर्गाः वंचितानाम्, आवश्यकतायुतानां जनानां हिताय अग्रे आगन्तुं प्रेरयिष्यन्ति इति सः अवदत्। अस्मिन्नवसरे शिक्षामन्त्री रोहितठाकुर:, हिमाचलप्रदेशविधानसभाया: उपाध्यक्ष: विनयकुमार:, मुख्यसंसदीयसचिव: संजय: अवस्थी, कांग्रेसनेता सतपालरायजादा आदय: उपस्थिता: अभवन्।