Kinnaur News : हिमशैले निमग्न: आसीत् वीरस्य रोहितनेगिन: मृतशरीरं नवमासानामनन्तरं अभवत् अन्तिमसंस्कार:
हिमसंस्कृतवार्ता: – किन्नौरम्।
हिमाचलप्रदेशस्य किन्नौरमण्डलस्य तरण्डाग्रामस्य हुतात्मन: हवल्दार-रोहितनेगी इत्यस्य मृतशरीरं नवमासानामनन्तरं मंगलवासरे स्वजन्मग्रामं प्राप्तवान्। २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमसप्ताहे काश्मीरसीमायां अभियानस्य समये मेघगर्जनेन आहतः रोहितनेगी स्वसहचरैः सह हिमशैलस्य अधः मग्न: अभवत् तस्मिन् समये तस्य एकस्य सहचरस्य शवः प्राप्तः, परन्तु रोहितादयः सहचराः हिमे मग्ना: आसन् ।
नवमासानाम् अनन्तरं भारतीयसेनया अमरसिंहस्य पुत्रस्य रोहितनेगी इत्यस्य शव: त्रिदिवसपूर्वं पुनः प्राप्तम् । हुतात्मा रोहित नेगी कश्मीरसीमायां सेवमान: प्राणान् अत्यजत् । भारतीयसेना जुलैमासस्य ८ दिनाङ्के तस्य मृतशरीरं कारगिलतः लेहं आनयत् । ततः चण्डीगढं ततः चोलिंगं प्रति नीतम् । पार्थिवशरीरं चोलिंगतः वाहनद्वारा स्वजन्मग्रामं तारण्डाम् आनीतम् । हुतात्मन: रोहितनेगी इत्यस्य दाहसंस्कारः मंगलवासरे पूर्णसैन्यसम्मानेन कृतः।
रोहित नेगी इत्यस्य बलिदानस्य कारणात् तस्य परिवारः, ग्रामसहितं राज्ये शोकस्य तरङ्ग: वर्तते। तस्य शौर्यं त्यागं च सर्वदा स्मर्यते। तस्य साहसं देशभक्तिः च युवानां प्रेरणादायिनी भविष्यति। मंगलवासरे तारण्डाग्रामे ‘रोहितनेगी अमरं भूयात्’ इति घोषै: प्रतिध्वनितम्।