By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Bhisham Project : हिमाचले यत्र महती आपदा; तत्र चिकित्सालयः प्राप्स्यति, अष्टनिमेषेषु भविष्यति चिकित्सा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Bhisham Project : हिमाचले यत्र महती आपदा; तत्र चिकित्सालयः प्राप्स्यति, अष्टनिमेषेषु भविष्यति चिकित्सा
हिमाचलवार्ता

Bhisham Project : हिमाचले यत्र महती आपदा; तत्र चिकित्सालयः प्राप्स्यति, अष्टनिमेषेषु भविष्यति चिकित्सा

डॉ मनोज शैल
Last updated: 2024/06/27 at 10:13 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Bhisham Project : हिमाचले यत्र महती आपदा; तत्र चिकित्सालयः प्राप्स्यति, अष्टनिमेषेषु भविष्यति चिकित्सा

हिमसंस्कृतवार्ता: – बिलासपुरम्। 

हिमाचले मेघविस्फोटस्य, जलप्रलयस्य वा अन्यस्य प्राकृतिकविपदायाः कारणेन मार्गाः निरुद्धा: भवन्ति चेत् पीडितानां चिकित्सायाः वञ्चनं न भविष्यति। आपदापीडितानां कृते स्थले एव समये चिकित्सा भविष्यति। पीडितानां चिकित्सायै चिकित्सालयं गन्तुं न प्रयोजनं भविष्यति, अपि तु चिकित्सालयः एव तेषां समीपम् आगमिष्यति। एतत् केन्द्रसर्वकारस्य परियोजना भीष्मद्वारा सम्भवं भविष्यति। कस्यापि प्रकारस्य आपदि जनानां कृते समुचितसमये स्थले एव चिकित्सां कर्तुं केन्द्रसर्वकारेण अस्याः परियोजनायाः अन्तर्गतं राज्यस्य बिलासपुरस्य अखिलभारतीय- आयुर्विज्ञासंस्थानम् (एम्स) समाविष्टम् अस्ति। बिलासपुरस्य एम्स-इति देशस्य प्रथमं स्वास्थ्यसंस्थानम् अस्ति यद् परियोजनया सह सम्बद्धः इति विश्वास: क्रियते।

परियोजनायाः अन्तर्गतम् अखिलभारतीय- आयुर्विज्ञासंस्थानम् उत्तमस्वास्थ्यसेवाप्रदानार्थं आरोग्यमैत्री इत्यस्य सुविधां ग्रहीष्यति। अखिलभारतीय- आयुर्विज्ञासंस्थानस्य चिकित्साधीक्षक: डॉ. दिनेशवर्मा बिलासपुरस्य बचतभवने उपायुक्तस्य अध्यक्षतायां आयोजितायां आपदा- प्रबंधनसभायां एतद् प्रकटितवान्। डॉ. दिनेशः अवदत् यत् एम्सः परियोजनायां सम्मिलितः अभवत्, अधुना राज्ये कुत्रापि आपदा सति केवलं अष्टनिमेषेषु तत्र चिकित्सालयः सज्जीकृत्य रोगिणां चिकित्सा आरब्धुं शक्यते। एतत् लाभप्रदं भविष्यति यत् कोऽपि आपदापीडितः चिकित्सायाः अभावात् न म्रियते। अखिलभारतीय- आयुर्विज्ञासंस्थानस्य चिकित्सकेभ्य: प्रशिक्षणं दत्तम् अस्ति। पेटीकासु स्थापितानि चिकित्सालयस्य वस्तूनि मासत्रयानन्तरं बिलासपुरं प्राप्स्यन्ति।

 

एवं निर्मितः भविष्यति चिकित्सालयः, युगपत् २०० जनानां चिकित्सा भविष्यति

परियोजना-भीष्मस्य अन्तर्गतम् एम्सबिलासपुराय ७२० किलोभारस्य ३६ पेटिका: प्राप्ता: भविष्यन्ति। तस्मिन् सर्वाणि चिकित्सालयस्य वस्तूनि उपस्थितानि भविष्यन्ति। एता: पेटिका: चक्रविमानस्य साहाय्येन आपदास्थलं प्रति प्रस्थापयिष्यन्ते। एतासां पेटिकानां विशेषता अस्ति यत् एता: महता ऊर्ध्वतः पातिताः चेत् न भग्नाः भवन्ति न च जलेन प्रभाविताः भवन्ति। ३६ पेटीका: स्थानं प्राप्तवति ततः परं ८ निमेषेषु चिकित्सालयं सज्जीकृत्य रोगिणां चिकित्सा आरब्धुं शक्यते। अत्र २०० जनानां चिकित्सासुविधाः भविष्यन्ति। तस्मिन् एव काले अस्मिन् शल्यक्रियागृहात् आरभ्य एक्स- रे- वेण्टिलेटर-पर्यन्तं सुविधाः अपि भविष्यन्ति। रक्तस्य प्रतिरूपाणि अपि ग्रहीतुं शक्यन्ते।       

 

           “परियोजनां प्राप्य बिलासपुरसहितं राज्यस्य अन्येभ्य: जनपदेभ्य: अपि प्रत्यक्षलाभः भविष्यति। एम्स इत्यनेन आपद: निवारणाय पृथक् एस. ओ. पी. सज्जीकृता, एतत् प्रशंसनीयं सोपानम् अस्ति। अखिलभारतीय- आयुर्विज्ञानसंस्थानस्य नियन्त्रणकक्षं प्रत्यक्षतया जिला आपदाप्रबन्धनस्य नियन्त्रणकक्षेण सह सम्बद्धं भविष्यति येन कस्यापि प्रकारस्य आपदि सूचनाः सज्ञकर्तुं शक्यन्ते।”

         -आबिदहुसैन सादिक: उपायुक्त:, बिलासपुरम्

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: AIIMS, AIIMS Bilaspur, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, Himsanskritnews, HP NEWS, अखिल भारतीय आयुर्विज्ञान संस्थान, एम्स बिलासपुर, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himachal Monsoon : हिमाचलं प्राप्त: मानसून:, राज्ये पञ्चदिनानि यावत् क्रमशः प्रचण्डवृष्टेः सचेतना
Next Article Mandi Film Festival: लघ्वीकाश्यां मण्ड्यां चलचित्रमहोत्सव: आरब्ध:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?