By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: CM Sukhu : डाडासीबा नागरिकचिकित्सालयस्य क्षमता १०० शय्याः यावत् वर्धिता भविष्यति : मुख्यमन्त्री सुखविंदरसिंहसुक्खु:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > CM Sukhu : डाडासीबा नागरिकचिकित्सालयस्य क्षमता १०० शय्याः यावत् वर्धिता भविष्यति : मुख्यमन्त्री सुखविंदरसिंहसुक्खु:
हिमाचलवार्ता

CM Sukhu : डाडासीबा नागरिकचिकित्सालयस्य क्षमता १०० शय्याः यावत् वर्धिता भविष्यति : मुख्यमन्त्री सुखविंदरसिंहसुक्खु:

डॉ मनोज शैल
Last updated: 2024/06/23 at 9:55 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

CM Sukhu : डाडासीबा नागरिकचिकित्सालयस्य क्षमता १०० शय्याः यावत् वर्धिता भविष्यति : मुख्यमन्त्री सुखविंदरसिंहसुक्खु:

हिमसंस्कृतवार्ता: – कांगड़ा।

मुख्यमंत्री सुखविंदरसिंहसुक्खु: रविवासरे कांगड़ाजनपदस्य जसवां- प्रागपुरविधानसभाक्षेत्रस्य अंतर्गतं निर्माणाधीनस्य डाडासीबा नागरिकचिकित्सालयस्य निरीक्षणं कृत्वा अधिकारिभ्य: आवश्यकान् निर्देशान् अददत्। सः लोकनिर्माणविभागेन निर्माणकार्यस्य गुणवत्तां सुनिश्चितं कर्तुं आह। मुख्यमन्त्री उक्तवान् यत् प्रथमचरणे एतत् चिकित्सालयं ५० शय्याभिः सह निर्मितं भवति, द्वितीयचरणस्य क्षमता १०० शय्याः यावत् वर्धिता भविष्यति। सः अवदत् यत् एषा जसवांक्षेत्रस्य प्रमुखा सर्वकारीयस्वास्थ्यसंस्था अस्ति, अस्य क्षेत्रस्य जनानां कृते सेवां प्रददाति, अतः चिकित्सालये न्यूनता: अपसार्यन्ते । सः अवदत् यत् अस्य चिकित्सालयस्य प्रायः ५० प्रतिशतं निर्माणं सम्पन्नम् अस्ति, अवशिष्टं निर्माणकार्यं सम्पन्नं कर्तुं ३.६१ कोटिरूप्यकाणां आवश्यकता वर्तते, यत् राज्यसर्वकारः शीघ्रमेव प्रदास्यति। एतेन सह अत्र स्त्रीरोगविज्ञानस्य, अस्थिरोगविज्ञानस्य, शल्यचिकित्सायाः, संज्ञाहरणस्य च विशेषज्ञवैद्याः अपि च प्रयोगशालायाः तकनीकीकर्मचारिणः अपि नियोजिताः भविष्यन्ति। सः अवदत् यत् राज्यसर्वकारः डाडासीबा-चिकित्सालयम् आदर्शस्वास्थ्यसंस्थां करिष्यति।

मुख्यमन्त्री उक्तवान् यत् विगतपञ्चवर्षेभ्यः डाडासीबा- नागरिक- चिकित्सालयस्य निर्माणकार्यं मन्दगत्या प्रचलति, तस्य त्वरितीकरणस्य आवश्यकता वर्तते। सः अवदत् यत् राज्यसर्वकारः राज्यस्य सर्वेषु स्वास्थ्यसंस्थानेषु उत्तमसुविधाः प्रदातुं विशेषप्राथमिकताम् अयच्छत्, अस्यां दिशि सकारात्मकानि पदानि क्रियन्ते। सः अवदत् यत् अधुनैव एव आयोजितायां राज्यमन्त्रिमण्डलस्य सभायां स्वास्थ्य- परिवार- कल्याणविभागे चिकित्सापदाधिकारिणां २०० पदानि पूरयितुं निर्णयः कृतः। एतदतिरिक्तं राज्यस्य विभिन्नेषु चिकित्सामहाविद्यालयेषु प्राध्यापक- सह- आचार्य- सहायक-आचार्याणां २२ पदानि पूरयिष्यन्ते।

सः अवदत् यत् राज्यसर्वकारः आपत्कालीनस्वास्थ्यसेवासु उन्नयनं कर्तुं अपि प्रयत्नाः कुर्वन् अस्ति। मुख्यमन्त्री उक्तवान् यत् टाण्डा-नगरस्य डा.राजेन्द्रप्रसाद-चिकित्सा-महाविद्यालये आपत्कालीन-चिकित्साधिकारिणाम् अष्टपदानि पूरयिष्यन्ते। तदतिरिक्तं पण्डितजवाहरलालनेहरू चिकित्सामहाविद्यालये चम्बायां सहायकाचार्यस्य पञ्च पदानि पूरयिष्यन्ते, येन एतयोः चिकित्सामहाविद्यालययोः आघातकेन्द्राणि कार्यात्मकानि कृत्वा जनानां कृते सुविधाः प्रदातुं शक्यन्ते।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam himsanskritnews, HIM SASNSKRIT VARTA, Himsanskritnews, HP Congress, HP NEWS, HPCM, hpgovt cm Sukhu, कांगड़ा के समाचार, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः हिम संस्कृतम्, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPCM : मुख्यमंत्री स्वर्गीयवीरभद्रसिंहस्य जयन्त्युपलक्ष्ये श्रद्धांजलि: अर्पयत् 
Next Article जगतप्रकाशनड्डावर्यस्य विषये टिप्पणी सत्यात् तथ्यात् च दूरे काङ्ग्रेसनेता बम्बर ठाकुरः दुःखितः अस्ति- हर्षमहाजन:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?