NTT Recruitment : हिमाचले प्रारम्भिकबालपरिचर्या एवं शिक्षाप्रशिक्षकाणां नियुक्त्यर्थं सज्जता
हिमसंस्कृतवार्ता: – शिमला।
ये हिमाचलप्रदेशे द्विवर्षीयं नर्सरीशिक्षकप्रशिक्षणं कुर्वन्त: प्रारम्भिकबालपालनशिक्षाप्रशिक्षकाः भविष्यन्ति। मन्त्रिमण्डलस्य सभायाम् अनुमोदनानन्तरं शिक्षाविभागेन हिमाचले ६२९७ नियुक्त्यर्थं नियमान् निर्मातुं सज्जता आरब्धा।
आङ्गनवाडीकार्यकर्तृभ्यः षण्मासात्मकं सेतुपाठ्यक्रमं प्रदातुं योजना अपि अस्ति। सर्वकारीयविद्यालयेषु नर्सरी- केजी- छात्राणां परिचर्यायै प्रशिक्षकाणां नियुक्तिः कर्तव्या अस्ति। एषः प्रस्तावः प्रायः वर्षत्रयं यावत् सञ्चिकासु अटत्। अधुना सर्वकारेण नियुक्त्यर्थम् अनुमोदनं कृतम् अस्ति।
अधुनैव आयोजितायां मन्त्रिमण्डलस्य सतभायां बालकानां कृते उत्तमशिक्षां प्रदातुं शिक्षाविभागे ६२९७ प्रारम्भिकबालपालनशिक्षाप्रशिक्षकाणां नियुक्तिः कृता इति निर्णयः कृतः। गुरुवासरे सचिवालये मीडियाभिः सह वार्तालापं कुर्वन् शिक्षामन्त्री रोहितठाकुरः अवदत् यत् ये वर्षद्वयं नर्सरीशिक्षकप्रशिक्षणं कृतवन्तः तेषां नियुक्तौ प्राथमिकता भविष्यति।
एता: नियुक्तयः केन्द्रसर्वकारस्य नियमानुसारं कर्तव्याः सन्ति। केवलं ते एव तस्मिन् समाविष्टाः भविष्यन्ति ये पञ्जीकृतसंस्थाभ्यः एनटीटी कृतवन्तः। आंगनबाडीकार्यकर्तृणां विषये विभागीयस्तरस्य अपि चर्चा प्रचलति। विचारः अस्ति यत् तेषां षड्मासात्मकं सेतुपाठ्यक्रमं करणीयम्, यद्यपि अस्मिन् विषये कोऽपि निर्णयः न कृतः।