Bilaspur News : बिलासपुर- न्यायालयस्य समीपे गुलिकाप्रहार:
हिमसंस्कृतवार्ता: – बिलासपुरम्।
हिमाचलप्रदेशस्य बिलासपुरन्यायालयस्य समीपे गोलीकाण्डस्य प्रकरणं प्रकाशितम् अस्ति। गोलिकायां एकः युवकः घातितः अस्ति। गोलीकाण्डस्य अनन्तरं पुलिसदलं तत्स्थानं प्राप्तम्। घातित: स्थानीयचिकित्सालयं नीत:, ततः अखिलभारतीय- आयुर्विज्ञासंस्थानं प्रति चिकित्सायै प्रेषितम:। उपपुलिसाधीक्षक: (डीएसपी) मदनधीमानः प्रकरणस्य अन्वेषणं कुर्वन् अस्ति।
सूचनानुसारं पूर्वकाङ्ग्रेसविधायकस्य बम्बरठाकुरस्य उपरि आक्रमणस्य मुख्याभियुक्तः सौरभपटियालः स्वसहकारिभिः सह न्यायालये उपस्थित्यर्थम् आगतः आसीत्। आक्रमणप्रकरणे अभियुक्तः प्रायः सार्धमासपूर्वमेव प्रत्याभूतिं प्राप्तवान् आसीत्। एतस्मिन् समये अज्ञातजनाः पटियालस्य उपरि गोलीकाण्डं कृतवन्तः। अभियुक्तः गुलिकाप्रहारं कृत्वा न्यायालयं प्रति धावितवान् इति कथ्यते। एकः अभियुक्तः पुलिसैः गृहीतः एकः पलायितः इति उपपुलिसाधीक्षक: मदनधीमानः अवदत्। यानानां काचफलकानि अपि गोलिकाभिः भग्नाः अभवन्।