By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Cabinet Decision : पुलिसारक्षकचयनप्रक्रियायै आयुसीमावर्धिता, जीविकाया: अवसरा: निसृता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Cabinet Decision : पुलिसारक्षकचयनप्रक्रियायै आयुसीमावर्धिता, जीविकाया: अवसरा: निसृता:
हिमाचलवार्ता

HP Cabinet Decision : पुलिसारक्षकचयनप्रक्रियायै आयुसीमावर्धिता, जीविकाया: अवसरा: निसृता:

डॉ मनोज शैल
Last updated: 2024/06/18 at 9:08 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

HP Cabinet Decision : पुलिसारक्षकचयनप्रक्रियायै आयुसीमावर्धिता, जीविकाया: अवसरा: निसृता:

हिमसंस्कृतवार्ता:- शिमला

हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मासत्रयानन्तरं मंगलवासरे मन्त्रिमण्डलस्य गोष्ठीं स्वीकृतवान्। अस्मिन् सत्रे अनेके महत्त्वपूर्णाः निर्णयाः कृताः। पुलिस- आरक्षकपदेषु नियुक्तिविषये अपि महत्त्वपूर्णः निर्णयः कृतः।

मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां मन्त्रिमण्डलसभायां पुलिसविभागे १२२६ आरक्षकपदानां नियुक्त्यर्थम् उपस्थितानां अभ्यर्थीनां उच्चायुसीमा परिवर्तिता। अभ्यर्थीनाम् आयुः सीमा वर्धिता। अधुना १८तः २६ वर्षपर्यन्तम् आयुवर्गे सामान्य- अभ्यर्थिनः, १८तः २८वर्षपर्यन्तं आयुवर्गे अनुसूचितजाति/ जनजाति, ओबीसी, गोरखा, प्रतिष्ठितक्रीडकाः तथा २०तः २९ वर्षपर्यन्तम् आयुवर्गे गृहरक्षका: नियुक्त्यै अधिकृता: भविष्यन्ति। लघुबालानां कृते उत्तमशिक्षाप्रदानाय शिक्षाविभागे ६२९७ प्रारम्भिकबाल्यसेवाशिक्षाशिक्षकाणां नियुक्त्यर्थं अपि मन्त्रिमण्डलेन स्वीकृति: दत्ता। विभिन्नेषु सर्वकारीयविभागेषु ६६३० तः अधिकानि पदस्थानानि निर्माय पूरयितुं च निर्णयः कृतः।

स्वास्थ्य-एवं-परिवारकल्याणविभागे  पदानि पूरयितुं निर्देशाः

सभायां स्वास्थ्यपरिवारकल्याणविभागे चिकित्सापदाधिकारिणां २०० पदानि निर्माय पूरयितुं निर्णयः कृतः। एतस्य अतिरिक्तं मन्त्रिमण्डलेन प्राध्यापकानाम् २२ पदानाम् अपि अनुमोदनं कृतम् अस्ति। एतेषु डॉ. यशवन्तसिंहपरमार- राजकीय- चिकित्सा- महाविद्यालये नाहने प्राध्यापकस्य त्रीणि पदानि, सहायकाचार्यस्य पदद्वयं, श्रीलालबहादुरशास्त्री- चिकित्सामहाविद्यालये प्राध्यापकपदद्वयं, सहाचार्यस्य एकं पदं च अन्तर्निहितमस्ति। स्वगृहसमीपस्थजनानां विशेषस्वास्थ्यसेवाप्रदानार्थं लालबहादुरशास्त्री- राजकीयचिकित्सा महाविद्यालये नेरचौके, पंडितजवाहरलालनेहरू- राजकीय- चिकित्सा- महाविद्यालये चम्बायां आचार्यस्य चत्वारि तथा सहाचार्यस्य सहायकाचार्यस्य च पञ्चैकं पदानि प्रदत्तानि।

टाण्डा चिकित्सामहाविद्यालये अपि पदानि पूरयिष्यन्ते

टाण्डा- चिकित्सामहाविद्यालये आपात्कालीन- चिकित्साधिकारीणाम् अष्टौ पदानि तथा च चम्बा- चिकित्सामहाविद्यालये सहायकाचार्यस्य पञ्चपदै: सह उपचारिकाणां (स्टाफ नर्स), शल्यचिकित्सासहायकस्य (ऑपरेशन थिएटर असिस्टेन्ट) तकनीकीज्ञस्य  (टेक्नीशियन), बहूद्देश्यीयकार्यकर्तॄणां (मल्टी टास्क वर्कर) पदै: आवश्यकसहायककर्मचारिणां पदानि च पूरयितुं निर्णयः कृतः यथा एतयोः चिकित्सामहाविद्यालययोः आघातकेन्द्राणि कार्यरतानि भवितुम् अर्हन्ति।

प्रशासनिकन्यायाधिकरणे विभिन्नवर्गस्य पदानि पूरयिष्यन्ते

मन्त्रिमण्डलेन हिमाचलप्रदेशप्रशासनिकन्यायाधिकरणे विभिन्नवर्गाणां ८४ पदानां निर्माणं पूर्तिं च कर्तुं निर्णयः कृतः। तस्मिन् एव काले राज्ये नवनिर्मित- चतुष्पंक्तियोजनाक्षेत्रेषु उत्तमविनियमनार्थं नगरदेशनियोजनविभागे विभिन्नवर्गस्य १३ पदानि पूरयितुं सहमतिः दत्ता। युवासेवा-क्रीडाविभागे युवा- आयोजकानां चतुर्णां पदानाम् अनुमोदनं दत्तम्। हिमाचलप्रदेशस्य परिधिमध्ये राज्यसर्वकारस्य तथा राज्यसार्वजनिकक्षेत्रस्य उपक्रमेषु, बोर्डेषु, निगमेषु, स्थानीयनिकायेषु च समूह ग पदेषु प्रत्यक्षनियुक्तिम् आनेतुं निर्णयः कृतः। मन्त्रिमण्डलेन काङ्गड़ामण्डलस्य देहरायां पुलिसाधीक्षकस्य कार्यालयस्य अधीक्षण- अभियंता लोकनिर्माणविभागस्य कार्यालयस्य उद्घाटनस्य अनुमोदनं कृतम्, परन्तु आदर्श आचारसंहितायाः कार्यान्वयनस्य कारणेन एतयोः कार्यालययोः पश्चात् सूचना भविष्यति। ऊनामण्डलस्य हरोलीक्षेत्रे विद्युत्विभागस्य उद्घाटनस्य अपि मन्त्रिमण्डलेन अनुमोदनं कृतम्।

गृहवासव्यवस्थां (होमस्टे) अपि सुव्यवस्थितं कर्तुं परामर्शा:

मन्त्रिमण्डले ग्रामीणविकासः पंचायतीराजमन्त्री अनिरुद्धसिंहः, लोकनिर्माणमन्त्री विक्रमादित्यसिंहः, प्राविधिकशिक्षामन्त्री राजेश धर्माणी च सदस्यरूपेण गृहेवासस्य संचालनं सुव्यवस्थितं कर्तुं परामर्शं दातुं अधिकृता:। अपि च उद्योगमन्त्रिण: हर्षवर्धनचौहानस्य अध्यक्षतायां मन्त्रिमण्डलस्य उपसमित्याः सङ्घटनम् कृतम्। अनेन राज्ये पर्यटनस्य प्रवर्धनं भविष्यति।

अपि च उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यस्य अध्यक्षतायां सदस्याः कृषिमन्त्री चन्द्रकुमारः, उद्योगमन्त्री हर्षवर्धनचौहानः, प्राविधिकशिक्षामन्त्री राजेश: धर्माणी च इत्येतै: सह संसाधनसङ्ग्रहविषये अनुशंसाः कर्तुं मन्त्रिमण्डलस्य उपसमित्याः गठनाय अनुमोदनं दत्तम्। अस्मिन् काले मन्त्रिमण्डलेन राज्ये वनाग्निः, अनावृष्टिः, जलस्य अभावः, मानसूनस्य प्रगतेः च स्थितिः अपि समीक्षिता।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, himachal update, Himsanskritnews, HP Cabinet Decision, HPCM, hpgovt, मन्त्रिमण्डल निर्णय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल मन्त्रिमण्डल, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Bhuntar Airport : भुन्तरविमानस्थानकात् देहरादूनं प्रति विमानस्य प्रथममुड्डयनम्, जलतोपै: अभिवादनं कृतम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?