इसरो- भारतीय अन्तरिक्षसंशोधनसङ्गठनम् इत्यनेन एडिटिव् निर्माणप्रौद्योगिक्या निर्मितस्य नूतनस्य द्रवीयरॉकेटइञ्जनस्य कृतं सफलतया परीक्षणम्
भारतीय अन्तरिक्षसंशोधनसङ्गठनेन-इसरो इत्यनेन एडिटिव् निर्माणप्रौद्योगिक्याः उपयोगेन निर्मितस्य नूतनस्य द्रवरॉकेटइञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम् अस्ति। तमिलनाडुराज्यस्य महेन्द्रगिरेः इसरो-संस्थायाः प्रोपल्सनपरिसरे शुक्रवासरे एतत् परीक्षणं कृतम् । नवनिर्मितस्य PS-4 इञ्जिनस्य खण्डानां संख्या न्यूनीकृता अस्ति । एतेन इञ्जिनस्य अपक्वद्रवस्य उपभोगः, उत्पादनस्य समयः च न्यूनीकरिष्यते। पीएसएलवी इत्यत्र अस्य उपयोगः भवति तत्रैव प्रक्षेपणवाहने, प्रतिक्रियानियन्त्रणप्रणाल्यां चापि अस्य प्रयोगः भविष्यति । इसरो पी.एस-4 इञ्जनम् इत्ययं पी.एस.एल.वी इत्यस्य कार्यक्रमे नियमितभागं कर्तुं योजनां करोति।