By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ईरान-देशीय-वायवीयोड्डयनक्षेत्रे भारतीयविमानानाम् उड्डयनम् एयर-इंडिया-समवायेन प्रतिषेधितम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > ईरान-देशीय-वायवीयोड्डयनक्षेत्रे भारतीयविमानानाम् उड्डयनम् एयर-इंडिया-समवायेन प्रतिषेधितम्
राष्ट्रीयवार्ताः

ईरान-देशीय-वायवीयोड्डयनक्षेत्रे भारतीयविमानानाम् उड्डयनम् एयर-इंडिया-समवायेन प्रतिषेधितम्

डॉ.अमनदीप शर्मा
Last updated: 2024/04/15 at 6:00 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

ईरान-देशीय-वायवीयोड्डयनक्षेत्रे भारतीयविमानानाम् उड्डयनम् एयर-इंडिया-समवायेन प्रतिषेधितम्

ईरान-इजरायलयो: मध्ये युद्धस्य स्थिति: समुत्पन्ना वर्तते। तस्याः युद्धस्थिते: प्रभाव: भारतेऽपि दृष्टिपथम् आयाति। पश्चिमीक्षेत्रे युद्धस्य अवस्थां निभाल्य एयर- इंडिया- समवायेन सुरक्षादृशा निजविमानचालका: निर्देशिता: सन्ति यत् ते ईरान देशीयोड्डयनाकाशक्षेत्रे विमानानि नैव प्रवेशयेयुः। यात्रिजनानां सुरक्षादृशा एष: निर्णय: अभिस्वीकृत: अस्ति। एतदर्थम् अपरेण वायवीयमार्गेण यात्रिजना: तेषां गंतव्यं यावत् प्रापयिष्यन्ते।
अवधेयमस्ति यत् ईरान-इजरायल-देशयो: मध्ये युद्धस्य स्थिति: समुत्पाद्यमना अस्ति। स्रोतांसि तु एतदपि प्रतिपादयन्ति यद् आगामि-चतुर्विंशति: होराभ्यन्तरे उभयो: देशयो: मध्ये भीषणं युद्धं प्रारप्स्यते इति। अत: एतादृश्यां सङ्कटापन्नायां दशायाम् ईरानदेशीय वायुमार्गीयक्षेत्रस्य उपरि उड्डयनम् एयर इंडिया समवायेन साकं यात्रिजनानां कृतेऽपि सङ्कटपूर्णमेव भवितुं शक्नोति। तेनैव कारणेन लन्दनम्प्रति उड्डीयमानेन विमानेन ईरानदेशीय वायुमार्गीयक्षेत्रमपहाय सुदीर्घ: लम्बायमान: वायवीय: मार्ग: अभिस्वीकृत:। अनेन पथा यात्रिका: जनाः होरद्वयस्य विलम्बेन नैजं गन्तव्यं यावत् प्राप्स्यन्ति। किन्तु प्राणरक्षाया: उपायत्वेन सर्वै: यात्रिकै: जनसामान्यैश्च एष: निर्णय: नितरां श्लाघ्यते।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: एयर इण्डिया, एयर इण्डिया ईरान
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article अमरनाथयात्रायाः अग्रिमपञ्जीकरणं १५ अप्रैलतः आरभ्यते इति संभावना
Next Article भारतीयजनतापक्षस्य ‘संकल्पपत्रम्’ ‘क्षमायाचना’ वर्तते – कांग्रेसनेता पवनखेडा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?