By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal Day 2024 : हिमाचलदिवसस्य समारोहस्य सज्जतायै सन्नद्धं प्रशासनम्, शिमलायां ऐतिहासिके रिजस्थले भविष्यति समारोह:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal Day 2024 : हिमाचलदिवसस्य समारोहस्य सज्जतायै सन्नद्धं प्रशासनम्, शिमलायां ऐतिहासिके रिजस्थले भविष्यति समारोह:
हिमाचलवार्ता

Himachal Day 2024 : हिमाचलदिवसस्य समारोहस्य सज्जतायै सन्नद्धं प्रशासनम्, शिमलायां ऐतिहासिके रिजस्थले भविष्यति समारोह:

डॉ मनोज शैल
Last updated: 2024/04/05 at 8:14 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Himachal Day 2024 : हिमाचलदिवसस्य समारोहस्य सज्जतायै सन्नद्धं प्रशासनम्, शिमलायां ऐतिहासिके रिजस्थले भविष्यति समारोह:

हिमसंस्कृतवार्ता- शिमला। 

हिमाचलदिवसस्य राज्य-स्तरीयसमारोहः १५ एप्रिल दिनाङ्के ऐतिहासिके रिजस्थले आचर्यते। राज्यपाल: शिवप्रतापशुक्ल: समारोहस्य मुख्यातिथि: भविष्यति। गतदिवसे आयोजिताया: सभायाः अध्यक्षतां कुर्वन् उपायुक्त: शिमला अनुपमकश्यप: समारोहस्य सज्जतायाः विषये एतां सूचनां दत्तवान्।

सांस्कृतिकदलानां प्रस्तुतय: भविष्यन्ति

कश्यपः अवदत् यत् कार्यक्रमे आकर्षकपथप्रदर्शनस्य आयोजनं भविष्यति, यस्मिन् शिमलापुलिसदलं, यातायातपुलिसदलं, गृहरक्षादलं, एनएसएस, स्काउट् एण्ड् गाइड्स्, एसडीआरएफ, इण्डियन पुलिस रिजर्व कोर इत्यादयः सम्मिलिताः भविष्यन्ति, यस्य पूर्वाभ्यासः १० अप्रैलतः आरभ्यते। तथैव अस्मिन् समारोहे सांस्कृतिककार्यक्रमाः अपि आयोजिताः भविष्यन्ति, येषु हमीरपुरं, सिरमौरं, मण्डी, काङ्गड़ा जनपदेभ्यः उत्तमाः सांस्कृतिकसमूहाः प्रदर्शनं करिष्यन्ति।

हिमाचलगृहरक्षावाद्यदलं आकर्षणस्य केन्द्रं भविष्यति

सभायां कथितं यत् हिमाचलप्रदेशपुलिसस्य  हिमाचलगृहरक्षाया: वाद्यदलं च अस्मिन् समारोहे आकर्षणकेन्द्रं भविष्यति। निर्देशं दत्त्वा उपायुक्तः अवदत् यत् सर्वाणि आमन्त्रणपत्राणि समये एव प्रेषयितव्यानि। एतदतिरिक्तं सः कार्ये स्वातन्त्र्यसेनानीनां कृते उत्तमव्यवस्थां कर्तुं निर्देशं दत्तवान्। अनुपम कश्यपः अपि समारोहस्थले स्वच्छतायाः विशेषतया पालनं कृत्वा उत्तमसज्जा सुनिश्चितं कर्तुं निर्देशं दत्तवान्।

उपायुक्तेन निर्देशा: दत्ता:

उपायुक्तेन सर्वेभ्यः विभागेभ्यः समन्वयेन कार्यं कृत्वा निर्धारितसमये सर्वा: सज्जता: पूर्णा: कर्तुं निर्देशः अपि दत्तः।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal Day, Himachal news, himachal update, Himsanskritnews, hpgovt, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल दिवस
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article राज्यसभायाः शपथं ग्रहीतवन्तौ सोनियागांधी अश्विनीवैष्णवश्च
Next Article HP Politics : ये कङ्गनां बहिर्निवासी इति वदन्ति ते राज्यसभा प्रत्याशीं कुतः आनीतवन्त: ?
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?