पीएचडी प्रवेशप्रक्रियायाः कृते राष्ट्रीयपात्रतापरीक्षा नेट इत्स्यैव प्रयोगः सर्वेषु विश्वविद्यालयेषु भविष्यति- यूजीसीसंस्था
देशस्य सर्वे विश्वविद्यालयाः २०२४-२५ तमस्य वर्षस्य शैक्षणिकसत्रात् पीएचडी-प्रवेशार्थं पृथक् प्रवेशपरीक्षायाः स्थाने NET नेट इत्यस्य अङ्कानाम् उपयोगं करिष्यन्ति। विश्वविद्यालय-अनुदान-आयोगस्य अध्यक्षः एम. जगदीशकुमारः सामाजिकमाध्यमे सन्देशे अवदत् यत् शैक्षणिकसत्रम् 2024-25 तः पीएचडी प्रवेशार्थं विभिन्नाभिः शैक्षणिकसंस्थाभिः आयोजितानां प्रवेशपरीक्षाणां स्थाने राष्ट्रियपात्रतापरीक्षा-नेट-अङ्कानाम् उपयोगः कर्तुं शक्यते।
सः अवदत् यत् जून २०२४ सत्रस्य कृते नेट् आवेदनप्रक्रियायाः विषये सूचना आगामिसप्ताहे उपलब्धा भविष्यति इति अपेक्षा अस्ति। अस्मिन् विषये राष्ट्रियपरीक्षणसंस्था कार्यं कुर्वती अस्ति।
पीएचडी प्रवेशप्रक्रियायाः कृते राष्ट्रीयपात्रतापरीक्षा नेट इत्स्यैव प्रयोगः सर्वेषु विश्वविद्यालयेषु भविष्यति- यूजीसीसंस्था
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
2 Comments
2 Comments
Good
Good 👍