हिमस्खलनस्य प्रभावे आगते हिमाचलपथपरिवहननिगमस्य बसयानम् क्षतिग्रस्तम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
लाहौल-स्पीति-जनपदस्य तैलिङ्गनलिकायां हिमस्खलनं जातम्। तदा हिमाचलपथपरिवहननिगमस्य बसयानम् हिमस्खलनेन आहतम्। दुर्घटनायां बसयानस्य चत्वारि काचफलकानि भग्नानि अभवन्। पर्वतात् आकस्मिकं हिमस्खलनं यदा जातम् तदा बसयाने उपविष्टानां यात्रिकाणां मध्ये आतङ्कः उत्पन्न। रविवासरे सायं ४:०० वादनस्य समीपे एषा दुर्घटना अभवत्। केलाङ्गतः मनालीं प्रति बसयानं गच्छति स्म। हिमस्खलनस्य कारणेन यातायातस्य सम्मर्दस्य कारणेन बसयानं अटत्। दुर्घटनायां बसयानस्य क्षतिः अभवत्, अन्ये सर्वे यात्रिकाः सुरक्षिताः सन्ति।