आश्चर्यम् – भारतात् पाकिस्तानं अधिकः सुखी , विश्वसूच्यां भारतं १२६ तमे स्थाने
विश्वसुखदिवसस्य अवसरे संयुक्तराष्ट्रसङ्घेन बुधवासरे सुखसूचकाङ्कस्य प्रतिवेदनं प्रकाशितम्। संयुक्तराष्ट्रसङ्घस्य प्रतिवेदनानुसारं पाकिस्तानदेशः भारतात् अधिकं सुखी देशः अस्ति । विश्वस्य १४३ देशेषु प्रकाशितस्य विश्वसुखसूचकाङ्के भारतं १२६ तमे स्थाने अस्ति । तस्मिन् एव काले आर्थिकसंकटेन सह संघर्षं कुर्वन् अस्माकं समीपस्थः देशः पाकिस्तानः सूच्यां १०८ स्थाने अस्ति । प्रतिवेदनानुसारं एतेषां १४३ देशानाम् समृद्धिं मापनार्थं षट् मापदण्डेषु प्रश्नाः सज्जीकृताः आसन् । एतेषु तत्तद्देशस्य प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादस्य, सामाजिकसहकार्यस्य, उदारतायाः भ्रष्टाचारस्य च, सामाजिकस्वतन्त्रतायाः, स्वस्थजीवनस्य च आधारेण क्रमाङ्कनं कृतम्। विश्वस्य सुखददेशानां सूच्यां फिन्लैण्ड्देशः सप्तमवारं क्रमशः प्रथमस्थानं प्राप्तवान् । अत्र केवलं ५५ लक्षजनसंख्या अस्ति । तस्मिन् एव काले अफगानिस्तानदेशः अन्तिमस्थाने एव अभवत् । प्रतिवेदने उक्तं यत् अधिकांशः सुखिनः देशाः यूरोपीयाः सन्ति । ज्ञातव्यं यत् विगत ११ वर्षेभ्यः विश्वसुखप्रतिवेदनस्य निर्माणं क्रियते। प्रथमवारं २०१२ तमे वर्षे अस्य निर्माणं कृतम् । एतस्य सज्जतायै जनानां सुखस्य मूल्याङ्कनेन सह आर्थिकसामाजिकदत्तांशः अपि विचार्यते । वर्षत्रयस्य औसतदत्तांशस्य आधारेण सुखस्य शून्यात् १० पर्यन्तं मापाङ्कनं दीयते । अस्मिन् समये २०२१-२०२३ यावत् दत्तांशः दृष्टः , परन्तु संयुक्तराष्ट्रसङ्घस्य एतत् नवीनतमं प्रतिवेदनं इजरायल-हमास-युद्धात् पूर्वं निर्मितम् आसीत् , अत एव युद्धेन सह संघर्षं कुर्वन् इजरायल्-देशः पञ्चमस्थाने अस्ति ।
आश्चर्यम् – भारतात् पाकिस्तानं अधिकः सुखी , विश्वसूच्यां भारतं १२६ तमे स्थाने
![](https://himsanskritam.com/wp-content/uploads/2024/03/pakistan-860x482.jpg)
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment