By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: CM Sukhu – जनसमस्यानां समयेन निराकरणं सर्वकारस्य प्राथमिकता।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > CM Sukhu – जनसमस्यानां समयेन निराकरणं सर्वकारस्य प्राथमिकता।
हिमाचलवार्ता

CM Sukhu – जनसमस्यानां समयेन निराकरणं सर्वकारस्य प्राथमिकता।

डॉ मनोज शैल
Last updated: 2024/03/14 at 3:43 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

CM Sukhu – जनसमस्यानां समयेन निराकरणं सर्वकारस्य प्राथमिकता।

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

सिरमौरमण्डलस्य शिलाई विधानसभाक्षेत्रे विशालजनसभां सम्बोधयन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् जनसमस्यानां समये निराकरणं तस्य प्राथमिकता अस्ति, राजनैतिकहितसेवायै समस्यानां स्थगितीकरणे सः विश्वासं न करोति। मुख्यमन्त्री उक्तवान् यत् राज्यस्य काङ्ग्रेससर्वकारः सामान्यजनेभ्य: आश्रयं दातुं समये एव निर्णयान् गृह्णाति। सः अवदत् यत् निर्णयाः विचारपूर्वकं क्रियन्ते, न तु निर्वाचनलाभार्थम् अपितु जनहिताय।

सः अवदत् यत् सः स्वयमेव सामान्यपरिवारस्य अस्ति, सामान्यजनानाम् समस्यानां समाधानार्थं कल्याणकारी योजनाः निर्मातुं तस्य प्रयासः अस्ति। सः अवदत् यत् राज्यसर्वकारः समाजस्य सर्वेषां वर्गानां हिताय कार्यं कुर्वन् अस्ति। जनानाम् आशीर्वादेन सर्वान् विघ्नान् अतिक्रम्य अस्मिन् दिशि सकारात्मकानि पदानि क्रियन्ते। सः अवदत् यत् अस्माभिः कृताः प्रतिज्ञाः पूर्णाः भवन्ति, आर्थिकस्थितौ उन्नयनं कृत्वा जनकल्याणस्य मार्गं प्रशस्तं कर्तुं प्रयत्नाः क्रियन्ते।

मुख्यमंत्री सुक्खुः उक्तवान् यत् राज्यसर्वकारः अपि भ्रष्टाचारस्य उन्मूलनार्थं दिवारात्रौ कार्यं कुर्वन् अस्ति। युवानां कृते प्राधान्ययुक्तं रोजगारं प्रदातुं भ्रष्टाचारस्य पर्यायः जातः हिमाचलप्रदेशस्य अधीनस्थकर्मचारिचयन- आयोगः हमीरपुरं विघट्य भ्रष्टाचारिणां विरुद्धं वैधानिकी कार्यविधि: अपि कृता। एकतः राज्यसर्वकारः युवानां योग्यतानुसारं जीविकां प्रदातुं प्रतिबद्धः अस्ति, अपरतः ६८० कोटिरूप्यकाणां राजीवगान्धी स्वरोजगार- प्रारम्भयोजना, हिमगंगायोजना सौरऊर्जा च इत्यादिभिः योजनाभिः युवानां कृते उत्तमजीविकाया: अवसरान् प्रदातुं प्रतिबद्धः अस्ति।

सः अवदत् यत् गतवर्षस्य वर्षर्तुविपदायाः पीडितानां कृते संबलं दातुं राज्यसर्वकारेण आश्रयपुस्तिकायां परिवर्तनं कृत्वा आश्रयराशिः बहुगुणा वर्धिता तथा च सीमितसंसाधनानाम् अभावेऽपि तेषां पुनर्वासार्थं ४५०० कोटिरूप्यकाणां विशेषसंकुलं निर्गतम्। सः अवदत् यत् सिरमौरमण्डले अस्याम् आपदायां ६६ गृहाणि पूर्णतया ७१८ गृहाणि च आंशिकरूपेण क्षतिग्रस्तानि अभवन्। तेभ्यः आश्रयरूपेण प्रायः २० कोटिरूप्यकाणि प्रदत्तानि आसन्। सः अवदत् यत् राज्यसर्वकारः शिक्षाक्षेत्रे प्रतिस्पर्धात्मकरूपेण उन्नयनं कुर्वन् अस्ति तथा च प्रथमश्रेणीतः आङ्ग्लमाध्यमेन शिक्षायाः कृते राजीवगान्धी- दिवस- बोर्डिंग-विद्यालयस्य च अस्मिन् दिशि महत्त्वपूर्णा सिद्धा भविष्यति। सः अवदत् यत् प्रत्येकस्मिन् विधानसभाक्षेत्रे स्थापिताः आदर्शस्वास्थ्यसंस्थाः ग्रामस्तरस्य उत्तमस्वास्थ्यसुविधाः प्रदास्यन्ति।

मुख्यमन्त्री उक्तवान् यत् सः जनबलेन राजनीतिं करोति, तस्य कृते आसन्द: सामान्यजनस्य आशां पूर्णं कर्तुं साधनम् अस्ति। लोकसभानिर्वाचने धनशक्त्या जनमतस्य अपमानं कुर्वन्तः जनाः पाठं पाठयन्तु इति सः जनान् आग्रहं कृतवान्। लोकतन्त्रस्य दमनस्य विपक्षपक्षस्य स्वप्नः स्वप्नमात्रं एव तिष्ठति इति सः अवदत्।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, HP NEWS, HPCM, hpgovt, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Cabinet Decision : कनिष्ठकार्यालयसहायक-(सूचनाप्रौद्योगिकी)-परीक्षाया: परिणामस्य घोषणायै अनुमोदनम्
Next Article Artificial Intelligence – कृत्रिममेधा-प्रौद्योगिकी पूर्वमेव भूकम्पविषये सूचनां दास्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?