By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Doctor’s Strike : अवकाशे गतेभ्य: चिकित्सकेभ्य: स्वास्थ्यनिदेशालयस्य  सूचनापत्रम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Doctor’s Strike : अवकाशे गतेभ्य: चिकित्सकेभ्य: स्वास्थ्यनिदेशालयस्य  सूचनापत्रम्
हिमाचलवार्ता

HP Doctor’s Strike : अवकाशे गतेभ्य: चिकित्सकेभ्य: स्वास्थ्यनिदेशालयस्य  सूचनापत्रम्

डॉ मनोज शैल
Last updated: 2024/03/13 at 9:32 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Doctor’s Strike : अवकाशे गतेभ्य: चिकित्सकेभ्य: स्वास्थ्यनिदेशालयस्य  सूचनापत्रम्

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

स्वास्थ्यनिदेशालयेन अनाभ्यासवृत्ते: (एनपीए) आग्रहं कृत्वा आन्दोलनम् कुर्वद्भ्य: चिकित्सकेभ्य: सूचनापत्रम् निर्गतमस्ति। अस्मिन् सूचनापत्रे प्रायः ६० चिकित्सकेभ्य: सहसा अवकाशं गमनस्य कारणं पृष्टम् अस्ति। स्वास्थ्यनिदेशालयेन एकसप्ताहस्य अन्तः सूचनायाः उत्तरं याचितम् अस्ति। उत्तरं प्राप्य स्वास्थ्यनिदेशालयः प्रमुखकार्याणि कर्तुं शक्नोति।

उल्लेखनीयं यत् अनाभ्यासवृत्ते: आग्रहे  स्थिर:  चिकित्साधिकारीसंघेन पूर्वं सार्धद्विहोरां यावत् कार्य- स्थगनान्दोलनम् (पेन डाउन स्ट्राइक) आरब्धम् आसीत्, परन्तु तावत्पर्यन्तं सर्वकारस्य चिकित्साधिकारीसंघस्य च मध्ये वार्ता समाप्ता न अभवत्, राज्यस्य चिकित्सका: सर्वत्र मार्चमासस्य ७ दिनाङ्के सामूहिकावकाशं गन्तुं निर्णयं कृतवन्त: आसन्। एतस्य निर्णयस्य अनन्तरं २६०० वैद्याः सामुहिकम् अवकाशं गतवन्तः। एतेषु आकस्मिकावकाशार्थं आवेदनं न कृतवन्तः वैद्याः अपि आसन्। स्वास्थ्यविभागेन तेभ्य: सूचना प्रसारिता अस्ति।

चिकित्साधिकारीसंघेन सूचनायाः निर्गमनस्य विरोधः कृतः अस्ति। अवकाशे ये वैद्याः आसन् ते सर्वे पूर्वमेव स्वास्थ्यविभागाय सामूहिकावकाशस्य विषये सूचनां प्रेषितवन्तः इति अपि स्पष्टीकृतम्। तदपि वैद्याः लक्ष्यीक्रियन्ते। सः अवदत् यत् चिकित्साधिकारसङ्घः वैधप्रार्थनानां कृते आन्दोलनं कुर्वन् अस्ति। स्वास्थ्यविभागः, सर्वकारः च तेषां याचनाया: विषये ध्यानं दत्त्वा यथाशीघ्रं तानि पूरयितुं कार्यं कर्तव्यम्।

अवकाशस्य सूचना पूर्वमेव दत्ता आसीत्: चिकित्साधिकारीसंघः

चिकित्सा- अधिकारीसंघस्य महासचिवः डॉ. विकासठाकुरः अवदत् यत् ये वैद्याः अवकाशे सन्ति तेभ्यः सूचनापत्रस्य निर्गमनं सम्यक् नास्ति। सः अवदत् यत् संघेन एकदिवसीयसामूहिकावकाशं गन्तुं सर्वकाराय पूर्वमेव सूचितम्। एतादृशे सति स्वास्थ्यनिदेशकस्य माध्यमेन तेभ्यः कारणं दर्शयितुं सूचनां दातुं न उचितम्।

स्वास्थ्यसेवा प्रभाविता अभवत् : निदेशकः

स्वास्थ्यनिदेशकः डॉ. गोपालबैरी इत्यनेन उक्तं यत् वैद्यानां अकस्मात् अवकाशे गते सति इति कारणेन स्वास्थ्यसेवा प्रभाविता अभवन्। एतत् दृष्ट्वा एतद् सूचनापत्रम् निर्गतमस्ति। सः अवदत् यत् आगामिषु सप्तदिनेषु वैद्यैः उत्तरं दातव्यं भविष्यति। वैद्यैः उत्तरं दत्तस्य अनन्तरं अस्मिन् विषये अग्रे कार्यविधि: भविष्यति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: Health Department HP, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himachal Pradesh, himachal update, Himsanskritnews, HP Doctor's Strike, HP NEWS, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Mandi Shivratri Festival: पड्डलप्राङ्गणे अवतरित: देवलोकः, एकत्रैव भवति देवी-देवतानां  दर्शनानि
Next Article CM Sukhu : भ्रष्टाचारं निवारयितु़ दृढ़नियमाः निर्मिताः भविष्यन्ति- मुख्यमन्त्री सुखविन्दरसिंहसुक्खु:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?