नूतनसंस्कृतप्रविधिभि: संस्कृतं पठिष्यन्ति विद्यालयीया: छात्रा:
मण्ड्यां सोत्साहेन सम्पन्ना सेवारतानां संस्कृत-शिक्षकाणां पञ्चदिवसीया कार्यशाला
हिमसंस्कृतवार्ता:- मण्डी।
लघ्वीकाश्यां मण्ड्यां संस्कृतशिक्षकाणां पञ्चदिवसीय- क्षमतानिर्माणप्रशिक्ष णकार्यशाला शनिवासरे सम्पन्ना। अस्याः कार्यशालायाः सुचारुसञ्चालनस्य विषये प्रसन्नतां प्रकटयन् उपनिदेशक: उच्च एवं प्रारम्भिक शिक्षा अमरनाथ राणा इत्यनेन उक्तं यत् इयं कार्यशाला संस्कृतमाध्यमेन सम्पन्ना एतत् प्रशंसनीयं वर्तते एतदर्थं प्रशिक्षका: शिक्षका: च अभिनन्दनीया: सन्ति। जिलाशिक्षकप्रशिक्षणप्रभारी कमलेश महाजन अवदत् यत् अस्यां कार्यशालायां नूतनशिक्षानीत्यानुसारं स्वशिक्षणविधौ गुणवत्ताम् आनेतुं संस्कृतशिक्षकाणां प्रशिक्षणं क्रियते। कार्यशालायां विशेषतया हिमाचले देवभूमौ संस्कृतभाषायाः विषये विशेष बलं देयमस्ति, तत्सहितं संस्कृतं माध्यमभाषारूपेण स्वीकर्तुं बलं दत्तम्। कार्यशालायाः प्रभारी विजय शर्मा अवदत् यत् परिवर्तनशीलसमयेन सह संस्कृतभाषाशिक्षणस्य पद्धतयः परिवर्तयितव्याः भविष्यन्ति, येन समाजस्य मुख्यधारायां संस्कृतस्य अधिकं स्थानं भवेत्। भारतीयसंस्कृते: तत्वं ज्ञातुं संस्कृतस्य ज्ञानम् अनिवार्यं वर्तते। संस्कृतं विना अस्माकं संस्कृति: नास्ति। असौ अकथयत् यत् प्रथमवारं संस्कृतमाध्यमेन संस्कृतप्रशिक्षणं दृष्टवा अहं बहुसन्तुष्टास्मि। ज्ञातव्यं यत् मण्डीजनपदस्य २५ शिक्षाखण्डेभ्यः नवमदशम्याः ५१ संस्कृतशिक्षकाः विशेषतया अस्यां कार्यशालायां भागं गृहीतवन्तः। तत्रैव स्रोतव्यक्तिरुपेण डॉ. मनोजकुमारशैल:, डॉ. सेवकराम:, डॉ. मनोहरलाल:, शास्त्री नरेन्द्रकुमार:, शास्त्री हंसराजसांख्यायन: भागं ग्रहीतवन्तः। कार्यशालाया: अन्तिमे दिने सर्वै: शिक्षकै: गणश: पाठ्योपकरणानां निर्माणम् कृत्वा तस्य प्रदर्शनमपि कृतम्। प्रशिक्षणप्राप्तै: शिक्षकै: स्वानुभवा: अपि प्रकटिता: किञ्च अमूल्या: परामर्शा: अपि प्रदत्ता:।