By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: विधायकप्राथमिकता-गोष्ठी – ऊना-हमीरपुर-सिरमौर-जनपदानां विधायकानां प्राथमिकता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > विधायकप्राथमिकता-गोष्ठी – ऊना-हमीरपुर-सिरमौर-जनपदानां विधायकानां प्राथमिकता:
हिमाचलवार्ताप्रादेशिकवार्ता

विधायकप्राथमिकता-गोष्ठी – ऊना-हमीरपुर-सिरमौर-जनपदानां विधायकानां प्राथमिकता:

डॉ मनोज शैल
Last updated: 2024/01/30 at 12:37 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

विधायकप्राथमिकता-गोष्ठी – ऊना-हमीरपुर-सिरमौर-जनपदानां विधायकानां प्राथमिकता:

हिमसंस्कृतवार्ता- शिमला।

ऊनाजनपदस्य विधायकानां प्राथमिकता

ऊना– ऊनाया: विधायक: सतपालसिंह: सत्ती पुरातनकार्याणां निवृत्तये पर्याप्तधनस्य प्रार्थनां कृतवान्।  सः अवदत् यत् राज्यसर्वकारेण आपत्काले विधायकनिधिनियमेषु परिवर्तनं कृत्वा प्रभावितजनानाम् कृते सुरक्षाभीत्ति: (रिटेनिंग वॉल) इत्यादीनां कृते धनं दातुं प्रावधानं कृतम् अस्ति, यस्य विस्तारः २०२४ तमस्य वर्षस्य जूनमासात् परं कर्त्तव्य:। 

गगरेटम्– गगरेट विधानसभानिर्वाचनस्य विधायक: चैतन्यशर्मा दौलतपुरचौकस्य महाविद्यालयं एवं विद्यालयं पृथक्-पृथक् परिसरे संचालयितुं निवेदितवान्। स:  क्षेत्रे मादकद्रव्यस्य तस्कराणामुपरि अंकुशं स्थापयितुम् अयाचत्।  

कुटलैहड़म्– कुटलैहड़क्षेत्रस्य विधायकः देवेन्द्रभुट्टोः क्रीड़केभ्य: आहारधनं वर्धयितुं क्रीडासङ्घस्य कार्येषु च पारदर्शिताम् आनेतुं च आग्रहं कृतवान्। निराश्रितपशूनां समर्थनार्थं दृढ़पदं स्वीकुर्वन्तु इति अपि सः आग्रहं कृतवान्।

हमीरपुरजनपदस्य विधायकानां प्राथमिकता:

भोरंजम्– भोरंजविधानसभाक्षेत्रस्य विधायक: सुरेशकुमार: सीरनदस्य तटीकरणस्य याचनां कृतवान्। सः क्षेत्रे निर्माणाधीनस्य राष्ट्रियराजमार्गस्य निर्माणे गुणवत्तां सुनिश्चित्य विषयं उत्थाप्य भोरञ्जविद्यालये बहूद्देशीय भवनस्य निर्माणस्य आग्रहं कृतवान्।

हमीरपुरम्– हमीरपुरस्य विधानसभाक्षेत्रस्य विधायकः आशीषशर्मा मुख्यमन्त्रिणं प्रति आभारं प्रकटितवान् यत् सः हमीरपुरस्य नूतनबसस्थानकस्य कृते पर्याप्तं बजटं प्रदत्तवान्। सः हमीरपुरे पोलिक्लिनिकस्य उद्घाटनस्य, जिलामुख्यालयस्य नूतनं लघुसचिवालयस्य उद्घाटनस्य च आग्रहं कृतवान्।

बड़सरम्– बड़सरविधानसभाक्षेत्रस्य विधायक: इन्द्रदत्त: लखनपाल:  कृषकाणां लाभाय क्षेत्रे कृषिसिञ्चन- व्यवस्थाया: उन्नयनम् अयाचत्। सः विद्युतापूर्त्या: कृते आधारभूतसंरचनानां सुदृढीकरणाय, मार्गेषु समुचितजलनिकासी च कर्तुं, बिझड़ीक्षेत्रे पुलिसस्थानकस्य उद्घाटनस्य च आग्रहं कृतवान्।

सिरमौर-जनपदस्य विधायकानां प्राथमिकता:

पच्छाद:- पच्छादविधानसभाक्षेत्रस्य विधायक रीना कश्यप क्षेत्रे जलशक्ति मण्डलस्य उद्घाटनार्थं मुख्यमन्त्रिणं प्रति आभारं प्रकटितवती। क्षेत्रे पर्यटनस्य प्रवर्धनार्थं शिरगुलस्य भूरेश्वरमन्दिरस्य च अतिरिक्तं अन्यपर्यटनस्थलानां विकासाय सा आग्रहं कृतवती। सा सराहां- चण्डीगढ- मार्गस्य विस्तृतपरियोजना-प्रतिवेदनं शीघ्रमेव सज्जीकर्तुम् आग्रहं कृतवती।

नाहनम्– नाहनविधानसभाक्षेत्रस्य विधायकः अजय सोलंकी मुख्यमन्त्रिण:  सुखविन्दरसिंहसुक्खो: क्षेत्रस्य विकासाय ३० कोटिरूप्यकाणां घोषणां कर्तुं धन्यवादं दत्तवान्। नाहनस्य डॉ. यशवंतसिंहपरमार-चिकित्सा- महाविद्यालये विशेषज्ञवैद्यानाम् उपचारिकाणां च पदानि पूरयितुं सः आग्रहं कृतवान्। सः भूमिहीनानां कृते गृहनिर्माणार्थं भूमिविनियोगस्य आग्रहं कृतवान्।

पांवटा साहिब:- पांवटासाहबस्य विधानसभाक्षेत्रस्य विधायकः सुखरामचौधरी अवदत् यत् सः हिमाचलस्य यमुनानद्याः सीमां निश्चेतुम् आग्रहं कृतवान् येन तत्र अवैधखननं स्थगितुं शक्यते। सः नलीकूपस्य चालनार्थं क्षेत्रस्य कृषकाणां कृते लम्बितविद्युत्संयोजनानि तत्कालं प्रदातुं आग्रहं कृतवान्। पांवटासाहबनगरे यानस्थगनस्थलस्य (पार्किङ्ग) समस्यायाः समाधानं कर्तुं अपि आग्रहं कृतवान्।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: HPCM, hpgovt, MLA Priority Meeting, विधायकप्राथमिकता-गोष्ठी, हिम संस्कृत वार्ताः, हिमसंस्कृतवार्ताः हिमसंस्कृतम्, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- ई-टैक्सी एतदर्थं पटलं (पोर्टल) सज्जीकृत्य पञ्जीकरणं आरब्धम्
Next Article हिमाचले ऋतुपरिवर्तनं अष्टसु जनपदेषु द्विदिनं यावत् प्रचण्डवृष्टेः हिमपातस्य च नारङ्गवर्णीयसचेतना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?