हिमाचल सर्वकारः – लोकसभानिर्पूवाचनात् पूर्वं हिमाचले बृहद् प्रशासनिकं परिवर्तनम् , 43 एचएएस अधिकारिणां स्थानांतरणम्।
हिमसंस्कृतवार्ता:- शिमला।
राज्यसर्वकारेण हिमाचलप्रदेशप्रशासनिकसेवाया: अर्थात् एचएएस-अधिकारिणः स्थानान्तरिता: सन्ति। अस्य विषये मुख्यसचिवः प्रबोधसक्सेना अवकाशदिने रविवासरे अपि आदेशान् निर्गतवान्। एचएएस-पश्चात् अधुना आईएएस- आइपीएस- अधिकारिणां स्थानान्तरण- आदेशाः अपि निर्गताः भविष्यन्ति। अवधेयं वर्तते यत् अद्यत्वे बिहारस्य राजनीतिः चर्चायां वर्तते। २०२४ तमे वर्षे लोकसभानिर्वाचनात् पूर्वं राजनैतिकदलेषु अशान्तिः वर्तते। इतरथा हिमाचलप्रदेशात् अपि महती वार्ता निर्गता अस्ति। राज्ये लोकसभानिर्वाचनात् पूर्वं सर्वकारेण अनेके अधिकारिणः परिवर्तिता: सन्ति। इतः तत्र १३ उपमण्डलस्तरीया: (एसडीएम) अधिकारिण: अपि स्थानान्तरिताः सन्ति। अस्मिन् विषये मुख्यसचिवः प्रबोध सक्सेना इत्यनेन अधिसूचना प्रसारिता अस्ति।