रामलल्लायाः प्राण-प्रतिष्ठाया: समारोहस्य साक्षी अभवत् समस्तं जगत् – जयरामठाकुरः
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
सोमवासरः ऐतिहासिकः दिवसः अभवत् यस्य प्रतीक्षां जनाः वर्षेभ्य: कुर्वन्ति स्म इति पूर्वमुख्यमंत्री एवं विपक्षनेता जयरामठाकुरः अवदत्। वर्षाणां संघर्षस्य, त्यागस्य च कालः रामलल्लायाः प्रतिमायाः प्राण- प्रतिष्ठाया समारोह: सुखदरूपेण प्रकाशमानः अस्ति। अस्य अनन्तसङ्घर्षस्य पृष्ठे सर्वेभ्य: त्यागिभ्य : स: नमनं करोति। रामलल्लायाः प्रतिमायाः प्राण-प्रतिष्ठाया: उत्सवः सम्पूर्णस्य जगतः कल्याणस्य मार्गं प्रशस्तीकरोति। जयरामठाकुरः शिमलानगरस्य लोअरबाजारे स्थितस्य राममन्दिरात् अस्य ऐतिहासिकस्य आयोजनस्य साक्षी अभवत्। असौ तत्र अखण्डरामायणपाठस्य पूर्णताम् अकरोत् तथा च सर्वै: सह भगवत: श्रीरामचन्द्रस्य आरार्तिक्यम् अकरोत्। अस्मिन्नवसरे स: सर्वेभ्य: अस्य पावनावसरस्य शुभकामना: अगच्छत्।