By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलप्रदेश: – ऊनातः सम्पूर्णराज्ये पीएनजी-आपूर्तिं कर्तुं मार्गः स्पष्टः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलप्रदेश: – ऊनातः सम्पूर्णराज्ये पीएनजी-आपूर्तिं कर्तुं मार्गः स्पष्टः
हिमाचलवार्ताप्रादेशिकवार्ता

हिमाचलप्रदेश: – ऊनातः सम्पूर्णराज्ये पीएनजी-आपूर्तिं कर्तुं मार्गः स्पष्टः

डॉ मनोज शैल
Last updated: 2024/01/22 at 5:32 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचलप्रदेश: – ऊनातः सम्पूर्णराज्ये पीएनजी-आपूर्तिं कर्तुं मार्गः स्पष्टः,

 बाथुक्षेत्रे स्थापितं भविष्यति मातृकेन्द्रम्

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

आगामिसमये ऊनाजनपदसहितं हिमाचलप्रदेशे नलिका- प्राकृतिकवायो: अर्थात्  पाइप्ड नेचुरल गैस (PNG) सुविधां प्रदातुं मार्गः प्रशस्त: अस्ति। ऊनाया: बाथुक्षेत्रे निर्माणाधीनस्य पीएनजी-मातृस्थानकस्य पञ्जाबतः नलरेखया सह संयोजनस्य कार्यं अस्मिन् मासे सम्पन्नं भविष्यति। नलरेखां मातृकेन्द्रेण (मदर स्टेशन) सह सम्बद्धस्य अन्तिमसम्पर्कस्य कृते केवलं १०० मीटर् कार्यस्य अवशिष्टस्य समस्यायाः अन्ततः शनिवासरे ग्रामपञ्चायतबाथड़ी-प्रधानस्य अनुपमराणा इत्यस्य हस्तक्षेपस्य अनन्तरं समाधानं जातम्। अस्मात् मातृस्थानकात् ऊनाजनपदसहितं सम्पूर्णराज्ये पीएनजी-आपूर्तिः प्रदत्ता भविष्यति ।

मातृस्थानकात् प्रतिदिनं ८० सहस्राणि पीएनजी-वायो: आपूर्तिः सम्पूर्णराज्ये भविष्यति । अस्य स्थानकपर्यन्तं नलरेखां प्राप्तुं पंचायतस्य केचन जनाः स्वभूमितः नलरेखां न स्थापयितुं विरोधं कृतवन्तः । एतस्य विरोधस्य निवारणाय स्थानीयपञ्चायतस्य प्रतिनिधिभिः ग्रामजनान् प्रत्यययित्वा विरोधस्य समाप्तिः कृता । अस्मिन्नवसरे भारत-पेट्रोलियम- कार्पोरेशनसीमितस्य (बीपीसीएल) डीजीएम राजेन्द्रकुमार:, क्षेत्रीयप्रबन्धक: अनुपम श्रीवास्तव:, परियोजनाप्रबन्धक: शामशर्मा मुख्यरूपेण उपस्थिता: आसन्। पूर्वं बाथुतः भङ्गलामार्गपर्यन्तं भूमिसम्बद्धविषयेषु केवलं १०० मीटर् अवशिष्टं कार्यं आरब्धुं न शक्यते स्म। एतदर्थं कम्पनीप्रबन्धनेन स्थानीय-बाथड़ी-ग्रामपंचायतात् समाधानस्य प्रार्थना कृता। अधुना प्रधानस्य अनुपम राणा इत्यस्य समाधानस्य अनन्तरं मातृस्थानकात् पीएनजी इत्यस्य आपूर्तिः आगामिषु दिनेषु सम्भवः भविष्यति। कम्पनी यथाशीघ्रं मातृस्थानकं आरभ्यत इति लक्ष्यं कृतवती अस्ति। तदनन्तरं ग्रामपञ्चायतबाथु-बाथड़ी-इत्यादिषु समीपस्थेषु ग्रामपञ्चायतेषु अपि पाकशालासु नलिका-प्राकृतिक-वायो: आपूर्तिः भविष्यति। एतेन जनाः न्यूनेन दरेन एलपीजी प्राप्स्यन्ति, अनिलकोषस्य वहनस्य उपद्रवात् अपि मुक्ताः भविष्यन्ति ।

कम्पन्या:  डीजीएम राजेन्द्रकुमार: कार्ये सहयोगाय ग्रामपंचायतस्य बाथड़ी इत्यस्य प्रतिनिधीनां आभारं प्रकटितवान्। कथितं यत् अधुना बाथु-मातृस्थानक़ पञ्जाबस्य मेहंदावा्ल एसबी इत्यनेन सह नलसंयोजनद्वारा संयोजयितुं कार्यं सम्पन्नं भविष्यति। इतः बाथुमातृस्थानकस्य गुजरातेन सह नलसंयोजनद्वारा प्रत्यक्षसंपर्कः भविष्यति। मदरस्टेशन-बाथुतः बिलासपुरं, हमीरपुऱ तथा ऊना सहित हिमाचलस्य अन्येषु जनपदेषु पीएनजी इत्यस्य निर्बाधापूर्तिः भविष्यति। कार्यस्य अन्तिमचरणं जनवरीमासस्य अन्तिमं यावत् सम्पन्नं भविष्यति। फेब्रुवरीमासात् आरभ्य अस्य स्थानकस्य पूर्णसञ्चालनस्य लक्ष्यं निर्धारितम् अस्ति ।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Himachal Pradesh, hpgovt, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश सरकार, हिमाचल समाचार, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ऋतुविज्ञानविभाग: – ऊना-काङ्गड़ा शीततरङ्गेण कम्पितौ
Next Article हिमाचलप्रदेश: – बड़ाभङ्गालतः टाण्डाचिकित्सालयं उद्ग्रविमानेन प्रापिता रोगीमहिला
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?