चण्डीगढ़े एप्पल-फार्मर्स-फेडरेशन-आफ- इण्डिया इत्यस्य द्विदिनात्मकस्य अखिलभारतीयसम्मेलनम्
अनुदानस्य न्यूनताकारणात् उत्पादनव्ययवृद्ध्या विपत्तौ सेबफलम्
चण्डीगढे एकस्मिन् मञ्चे एकत्रिताः उद्यानपालका:
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
चण्डीगढ़म्। राज्येन केन्द्रसर्वकारेण च क्रियमाणस्य अनुदानस्य न्यूनीकरणस्य कारणात् सेबस्य उत्पादनस्य व्ययः भृशं वर्धमानः अस्ति, यस्मात् कारणात् सेब उत्पादकाः कष्टे सन्ति चण्डीगढ़े एप्पल-फार्मर्स-फेडरेशन-आफ- इण्डिया इत्यस्य द्विदिनात्मकस्य अखिलभारतीयसम्मेलने सेबस्य उत्पादनस्य आव्हानानां विषये चर्चा अभवत्। संघस्य संयोजकः सोहनसिंहठाकुरः अवदत् यत् सेब उत्पादकाः स्वजीविकायाः रक्षणस्य आह्वानं सम्मुखीकुर्वन्ति। सेबस्य कृते समर्थनमूल्यं, अनुदानं, विपणनम् इत्येतेषां कृते च उत्तमा व्यवस्था आवश्यकी अस्ति। अस्मिन् सम्मेलने त्रयाणां राज्यानां ८० तः अधिकाः उद्यानविदः प्रतिनिधिः भागं स्वीकृतवन्त:।
उर्वरककीटनाशकानां महार्घता, सेबस्य आयातशुल्कस्य न्यूनीकरणम् इत्यादिषु विषयेषु सम्मेलने चर्चा जाता, भविष्यस्य रणनीत्याः च निर्णयः अभवत् इति कारणेन सेबस्य उत्पादनस्य व्ययः द्विगुणित: जातः। सोहनसिंहठाकुरः अवदत् यत् सेबस्य उद्यानं उद्यानपालकानां कृते हानिकारकं मूल्यं जातम्। उद्यानपालकानां हितं निर्निमेषदृष्टौ स्थापयित्वा निगमकम्पनीनां आज्ञानुसारं सर्वकारा: कार्यं कुर्वन्ति । आगामि लोकसभानिर्वाचनात् पूर्वं हिमाचल-कश्मीर-उत्तराखण्डयोः उद्यानपालक-सम्मेलनस्य आयोजनं क्रियते, यस्मिन् भविष्यस्य रणनीत्याः निर्णयः अभवत्।