By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Kiratpur-Manali Fourlane : किरतपुर- मनाली- चतुष्पंक्तिराजमार्गे विद्युतवाहनानि पूरितानि भविष्यन्ति।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > Kiratpur-Manali Fourlane : किरतपुर- मनाली- चतुष्पंक्तिराजमार्गे विद्युतवाहनानि पूरितानि भविष्यन्ति।
प्रादेशिकवार्ताहिमाचलवार्ता

Kiratpur-Manali Fourlane : किरतपुर- मनाली- चतुष्पंक्तिराजमार्गे विद्युतवाहनानि पूरितानि भविष्यन्ति।

डॉ मनोज शैल
Last updated: 2024/01/14 at 5:55 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Kiratpur-Manali Fourlane : किरतपुर– मनाली- चतुष्पंक्तिराजमार्गे विद्युतवाहनानि पूरितानि भविष्यन्ति।

हरितवीथौ शीघ्रमेव उपलप्स्यन्ते चार्जिंग- स्थानकानि।

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

राज्यसर्वकारः शीघ्रमेव किरतपुर-मनाली हरितवीथौ सप्त विद्युत्वाहनचार्जिंगस्थानकानि स्थापितानि भविष्यन्ति। एतानि स्थानकानि राष्ट्रियराजमार्गे स्थापितानि सन्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः प्रथमे बजटभाषणे विद्युत्वाहनस्य स्वीकरणस्य प्रवर्धनस्य उद्देश्यं कृत्वा राज्ये षट् हरितवीथीनां स्थापनायाः घोषणां कृतवान्। इण्डियन ऑयल कार्पोरेशन लिमिटेड इत्यनेन किरतपुर- बिलासपुर- मण्डी- कुल्लू- मनाली- केलाङ्ग ग्रीनकॉरिडोर इत्यत्र घण्डले, दाड़लाघाटस्य समीपे दसेरने, बिलासपुरस्य समीपे नौनी, जडो़ले, नेरचौक- उपमार्गे, कुल्लौ भूतनाथमन्दिरसेतो: सम्मुखे तथा केलाङ्ग इत्यत्र रणनीतिकरूपेण स्थापितानि सन्ति। सप्त- विद्युतवाहनपूरणस्थानकानि स्थापितानि सन्ति।

शिमलातः केलाङ्गं प्रति गच्छन्तः विद्युत्वाहनचालकाः अपि चार्जिंगस्थानकानाम् लाभं प्राप्नुयुः। एतेषां स्थानकानां स्थापनायाः उद्देश्यं उत्तमयानसाधनानाम् प्रचारः अपि च ई-चालकानाम् सुखदयात्रासुविधाः प्रदातुं च अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् षट्घोषितासु हरितवीथिषु परवाणू- नालागढ- ऊना- हमीरपुर- देहरा- अम्ब- मुबारकपुर- संसारपुर- टेरेस- नूरपुरम्, पौंटा- नाहन- सोलन- शिमला, परवाणू- सोलन- शिमला- रामपुर- पियो- पूह- ताबो- काजा- लोसर:,  शिमला- बिलासपुर- हमीरपुर- कांगड़ा- नूरपुर- बनीखेत- चम्बा, मंडी- जोगिंदरनगर- पालमपुर- धर्मशाला- कांगड़ा- पठानकोटम्, कीरतपुर- बिलासपुर- मंडी- कुल्लू- मनाली- केलांग- जिंगजिंगबार सदृशा: मार्गाः समाविष्टाः सन्ति। एतदतिरिक्तम् अन्येषां पञ्चानां हरितवीथौ पूर्णसञ्चालनार्थं प्रयत्नाः प्रचलन्ति। परिवहनविभागेन अन्येषु प्रस्तावितेषु हरितवीथिषु ४५ अतिरिक्तानि विद्युतवाहन- चार्जिंगस्थानकानि स्थापयितुं निविदाप्रक्रिया आरब्धा अस्ति। एतानि स्थानकानि स्थापयितुं राज्यसर्वकारः निजीसञ्चालकानां कृते ५० प्रतिशतम् अनुदानं प्रदाति।

मुख्यमन्त्री अवदत् यत् वैश्विकतापस्य प्रभावः स्पष्टतया दृश्यते, अतः एतस्याः समस्यायाः निवारणाय पूर्वमेव पदानि ग्रहीतव्यानि। अत एव राज्यसर्वकारः २०२६ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं हिमाचलप्रदेशं हरित ऊर्जाराज्यं कर्तुं प्रतिबद्धः अस्ति। राजीवगान्धी- स्वरोजगारप्रारम्भयोजनायाः अन्तर्गतं ई-टैक्सी, ई-बस, ई-ट्रकयानस्य क्रयणे ५० प्रतिशतं अनुदानं प्रदातुं सहितं विविधाः प्रावधानाः पूर्वमेव कार्यान्विताः सन्ति। सः अवदत् यत् अस्य वर्षादरभ्य सर्वकारीयक्षेत्रे डीजल-पेट्रोल-वाहनानां क्रयणे अपि सर्वकारेण प्रतिबन्धः कृत। मुख्यमन्त्री उक्तवान् यत् ई-वाहनानां प्रचारः उत्तमपरिवहनस्य प्रति सर्वकारस्य समर्पणं प्रतिबिम्बयति, यस्य उद्देश्यं कार्बन उत्सर्जनस्य न्यूनीकरणं, स्वच्छं स्वस्थं च भविष्यं प्रति हिमाचलप्रदेशं हरित ऊर्जाक्षेत्रे अग्रणीराज्यं करणीयम् वर्तते।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Electric Vehicle Policy, Himachal government, Himachal news, Himachal Pradesh, Kiratpur-Manali Fourlane, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article जयरामठाकुर: – स्वास्थ्यसम्बद्धानां विषयाणां गम्भीरतापूर्वकं समाधानं कुर्यात् सर्वकार:
Next Article हिमाचले अपि निःशुल्कस्वास्थ्यसेवाः – डायलिसिस-एककं स्थापयिष्यति हंसप्रतिष्ठानम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?