By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचल-मन्त्रिमण्डलस्य निर्णयाः – प्रथमश्रेण्यां प्रवेशार्थं आयौ विशेषापकर्षः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > हिमाचल-मन्त्रिमण्डलस्य निर्णयाः – प्रथमश्रेण्यां प्रवेशार्थं आयौ विशेषापकर्षः
प्रादेशिकवार्ताहिमाचलवार्ता

हिमाचल-मन्त्रिमण्डलस्य निर्णयाः – प्रथमश्रेण्यां प्रवेशार्थं आयौ विशेषापकर्षः

डॉ मनोज शैल
Last updated: 2024/01/13 at 9:59 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचल-मन्त्रिमण्डलस्य निर्णयाः – प्रथमश्रेण्यां प्रवेशार्थं आयौ भविष्यति शिथिलता उपलब्धा , अवधि- आधारेण भविष्यति शिक्षकाणां नियुक्तिः

हिमसंस्कृतवार्ता- शिमला।

हिमाचलप्रदेशमन्त्रिमण्डलस्य गोष्ठी शुक्रवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां सम्पन्ना। सभायां बहवः बृहत् निर्णयाः कृताः सन्ति। मन्त्रिमण्डलस्य सभायां राज्यस्य प्राथमिकविद्यालयेषु प्रथमश्रेण्यां प्रवेशं स्वीकर्तृभ्य: बालकेभ्य: आयुसीमायां षड्मासानां शिथिलतां दातुं निर्णयः कृतः। त्रिवर्षाणाम् उपरि बालकाः नर्सरी, एलकेजी इत्यत्र ४ वर्षाणामुपरि, यूकेजी इत्यत्र ५ वर्षाणाम् उपरि च बालका: प्रवेशं प्राप्स्यन्ति। प्राथमिक-उच्चशिक्षाविभागेषु अवधि-आधारित-अतिथि-शिक्षकाणां प्रवेशाय मन्त्रिमण्डलेन सिद्धान्ततः अनुमोदनं दत्तम्। मन्त्रिमण्डलेन द्वयोः जीवितबालयोः न्यूनतया शिक्षाविभागे महिलापाककर्तृसहसहायिकानां कृते प्रसूतिलाभकानून १९६२ इत्यस्य अन्तर्गतं १८० दिवसानां प्रसूति-अवकाशं दातुं निर्णयः कृतः। मन्त्रिमण्डलेन बजटसत्रस्य अनुमोदनं कृतम्। फरवरीमासे बजटसत्रस्य आयोजनं भविष्यति।

१२७ पदानि पूरयितुम् अनुमोदनम्

मन्त्रिमण्डलेन लोक निर्माणविभागे कनिष्ठ-अभियंता (सिविल) इत्यस्य ४० पदानि तथा कनिष्ठ-प्राविधिकस्य (कार्यनिरीक्षकस्य) २५ पदानि, जलशक्तिविभागे कार्यनिरीक्षकस्य २० पदानि, राजस्वप्रशिक्षणसंस्थाने जोगिन्दरनगरे विभिन्नवर्गस्य ७ पदानि निर्माणस्य अनुमोदनं कृतम् एवं सैनिककल्याणविभागे हमीरपुरे विभिन्नवर्गाणां पञ्चपदानि पूरयितुम् अनुमोदनम् कृतम्।
मन्त्रिमण्डलेन गोष्ठ्यां हमीरपुरजनपदस्य ५० शय्यायुतस्य सामुदायिकचिकित्सालयस्य सुजानपुरस्य १०० शय्तायुते नागरिकचिकित्सालये स्तरोन्नतेन सह विभिन्नवर्गाणां ३५ पदानि सर्जयितुं पूरयितुम् च स्वीकृति: प्रदत्ता:।

*बालिकानां विवाहयोग्य-आयो: वर्धनार्थं नियमेषु भविष्यति संशोधनम्*

मन्त्रिमण्डलेन बालिकानां विवाहयोग्य-आयो: १८ वर्षेभ्यः २१ वर्षेभ्यः वर्धयित्वा तत्सम्बद्धेषु अधिनियमेषु नियमेषु च आवश्यकं संशोधनं कर्तुं निर्णयः कृतः। सभायां काङ्गड़ाजनपदस्य धारवागे मूल्यवर्धित-उत्पादैः सह त्रीणि एलएलपीडी-पर्यन्तं विस्तारणीयस्य स्वचालित-१.५० लक्ष-लीटर-प्रतिदिनस्य (एलएलडीपी) दुग्ध-प्रसंस्करण-संयंत्रस्य स्थापनायाः परामर्श-सेवानां कृते राष्ट्रिय-दुग्ध-विकास-मण्डलेन सह ज्ञापनपत्रे हस्ताक्षरस्य अपि अनुमोदनं कृतम् । निर्णयः कृतः ।

विधवानां एकलस्त्रीणां च कृते गृहनिर्माणाय सहायता राशि:

सभायां मुख्यमन्त्री विधवा तथा एकलमहिला आवास योजना-२०२३ इत्यस्य प्रारुपे सैद्धान्तिकरूपेण अनुमोदनं कृतम्। अस्य अन्तर्गतं विधवाभ्यः एकलमहिलाभ्यः च गृहनिर्माणार्थं १.५० लक्षरूप्यकाणां आर्थिकसहायता दीयते।

वस्तुसेवाकरम् ( जीएसटी ) एवं संबद्धकरपक्षः निर्मितः भविष्यति

मन्त्रिमण्डलेन विभागानां कार्यप्रणालीं सुव्यवस्थितं कर्तुं आबकारीपक्षः वस्तुसेवाकरम् (जीएसटी) च, संबद्धकरविभागः च इति पृथक् पृथक् पक्षद्वयं निर्माय राज्यकर-आबकारीविभागस्य पुनर्गठनार्थं मन्त्रिमण्डलेन स्वस्य अनुमोदनं दत्तम्। मन्त्रिमण्डलेन हिमाचलप्रदेशसद्भावना धरोहरप्रकरणनिराकरणयोजनायाः २०२३ तृतीयचरणस्य विस्तारः १ जनवरी २०२४ तः ३१ मार्च २०२४ पर्यन्तं लंबितमूल्यांकनप्रकरणानाम् अवशिष्टस्य च निराकरणाय अनुमोदनं कृतम्।

चलचित्रनीतिः अनुमोदिता

राज्ये चलच्चित्रनिर्मातॄणां प्रचाराय, सुविधायै च मन्त्रिमण्डलेन हिमाचलप्रदेशस्य चलच्चित्रनीति-२०२४ इत्यस्य अनुमोदनं दत्तम् । नीतेः अन्तर्गतं सूचनाजनसम्पर्कविभागे चलच्चित्रसुविधाप्रकोष्ठस्य स्थापनायाः प्रावधानम् अस्ति यत् राज्ये समर्पितेन जालपुटद्वारा राज्ये चलच्चित्रस्य छायाङ्कनं ( शूटिंग् ) कर्तुं सर्वा: अनुमतय: दत्तसमयसीमायां प्रदातुं एकवातायनरूपेण कार्यं करिष्यति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: \हिमाचल के आज के समाचार, Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, HP Cabinet Decision, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल की खबरें, हिमाचल के समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचलस्य १२ ग्रामेषु मुख्यमंत्री सहितं मन्त्रिणः करिष्यन्ति जनसमस्यानां निराकरणम्
Next Article मकरसंक्रांति: – पितु: पुत्रस्य च मेलनम् 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?