Truck Driver Strike हिमाचले पेट्रोल-डीजल-ईन्धनयोः कृते हाहाकार: ८० प्रतिशत-शिलातैलकेन्द्राणि रिक्तानि, हिमाचल- पथ- परिवहननिगमस्य निजीबसयानानां चक्राणि च स्थगितानि
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे अद्यत्वे पेट्रोल-डीजल-ईन्धनयोः कृते हाहाकार: जायमान: अस्ति। प्रदेशस्य ८० प्रतिशत- शिलातैलकेन्द्राणि रिक्तानि जातानि। हिमाचल- पथ- परिवहननिगमस्य निजीबसयानानां चक्राणि च स्थगितानि सन्ति। यातायातस्य सम्मर्द: वर्तते, तैलकम्पनयः तैलं पूरयितुं १४० टैंकरयानानि प्रेषितवत्य:। चालकानामान्दोलनेन हिमाचलप्रदेशे आक्रोशः उत्पन्नः अस्ति। गतदिवसे सायंकालपर्यन्तं एव अवशिष्टेषु शिलातैलकेन्द्रेषु तैलम् अवशिष्टम् आसीत्। पेट्रोलियमकम्पनयः स्ववाहनेषु, पेट्रोलपम्पसञ्चालकानां वाहनेषु च तैलस्य आपूर्तिं आरब्धवन्तः इति आश्रयस्य विषयः। पुलिसवाहनानि तान् अनुसृत्य गच्छन्ति। हिमाचलस्य ट्रक-बस-सञ्चालकाः अपि ‘हिट एण्ड रन’ प्रकरणानाम् विषये मोटरवाहन-अधिनियमे कृतानां संशोधनानाम् विरुद्धं विरोधम् आरब्धवन्तः। राज्यस्य सीमेण्टकम्पनीनां एसीसी, अम्बुजा, अल्ट्राटेक् इत्येतेषां १०,८०० ट्रकसञ्चालकाः विरोध-प्रदर्शनम् आरब्धवन्त:। एते जनवरी ३ पर्यन्तं मार्गम् अवरुद्ध्य केन्द्रसर्वकारस्य विरोधं करिष्यन्ति। ट्रकसञ्चालकानां आन्दोलनस्य कारणेन वज्रचूर्णस्य (सीमेण्टस्य) आपूर्तिः स्थगिता अस्ति। अपरपक्षे सिरमौर-बिलासपुरयोः संचालकाः अपि विरोधरूपेण स्वस्य ४५० तः अधिकानि बसयानानि निक्षिप्तवन्तः। बिलासपुरे ३०५ बसमार्गाः सिरमौरे १६९ बसमार्गाः प्रभाविताः सन्ति। सुन्दरनगरे अपि एतादृशी स्थिति अस्ति। हिमाचलपथपरिवहननिगमस्य सुन्दरनगरस्य आगारेण अपि सर्वे मार्गा: स्थगिता:। सिरमौरनगरस्य औद्योगिकक्षेत्रे काला-अम्बे अपि ५०० ट्रकयानानां चक्राणि स्थगितानि सन्ति। देशे सर्वत्र त्रिदिवसीय- आन्दोलनस्य कारणात् हिमाचले डीजल- पेट्रोल- पाक-गैसयोः संकटः वर्तते ।
डीजल-पेट्रोलस्य कृते पङ्क्त्य:
तैलस्य आपूर्ते: अनुपलब्धतायाः कारणात् शिलातैलकेन्द्रेषु डीजलस्य, पेट्रोलस्य च पङ्क्तयः निर्मीयन्ते। नववर्षस्य अवसरे राज्यं द्रष्टुं आगताः पर्यटकाः स्वगृहं प्रत्यागन्तुं वाहनस्य ईंधनं न प्राप्नुवन्ति। न्यूनस्य भण्डारस्य कारणात् शिलातैलकेन्द्रेषु पर्याप्तं तैलं न प्राप्यते। हिमाचलपथपरिवहननिगमस्य (HRTC) आगारेषु अपि तैलस्य अभावः अस्ति। अनेकेषु आगारेषु नाममात्रस्य भण्डारः अवशिष्टः अस्ति। यदि एकदिनद्वयेन वा आपूर्तिः न आगच्छति तर्हि सर्वकारीयबसयानानि अपि स्थगितानि भविष्यन्ति। तैलस्य अभावात् परिवहननिगमः मंगलवासरात् आरभ्य मार्गेषु क्लबिंगं कुर्वन् अस्ति। यत्र पूर्वं द्वौ बसयानौ प्रचलतः तस्मिन् मार्गे एकमैव यानं चालयितुं शक्यते येन तैलस्य रक्षणं कर्तुं शक्यते इति तात्पर्यम्।
Truck Driver Strike : पेट्रोल-डीजल-ईन्धनयोः कृते हाहाकार: ८० प्रतिशत-शिलातैलकेन्द्राणि रिक्तानि
![](https://himsanskritam.com/wp-content/uploads/2024/01/truck-driver-strike.jpg)
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment