Parliament Security Breach : लोकसभायाः दर्शकदीर्घातः प्रविश्य दौ जनौ सदने उत्पादं कृतवन्तौ
यदा देशः आतङ्कि-प्रहारात् संसत्-भवनं संरक्षितुं स्वकीय-प्राणाहुति-प्रदातृभ्यः हुतात्मभ्यः श्रद्धाञ्जलिः समर्पयन्नासीत् तस्मिन्नेव काले द्वौ अज्ञात-जनौ लोकसभायाः दर्शकदीर्घातः स्वेच्छया सदनम् आपतितौ येन लोकसभायां कोलाहलेन सह सम्मर्दात्मिकी स्थितिः सञ्जाता। सन्दिग्धैः आरोपिभिः सदने विषाक्तवायोः स्रावः कृतः, येन तत्र धूमस्य वातावरणं सञ्जातम्। अवसरेऽस्मिन् सांसदैः जनौ निगडितौ किञ्च आरक्षिभिः समर्पितौ। तदनन्तरं सदनं च स्थगितम् घटनेयं तदा जाता यदा सदने शून्यकालः जायमानः आसीत् । संसदः बहिः वार्ताहरैः सह सम्भाषयन् भाजपेति दलस्य सांसदः राजेन्द्र अग्रवालः उक्तवान् यत् उभावपि जनौ आरक्षिभिः निगडितौ ।
Parliament Security Breach : लोकसभायाः दर्शकदीर्घातः प्रविश्य दौ जनौ सदने उत्पादं कृतवन्तौ
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment