By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हनुमान द्वारा भीमस्य दर्प शमनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतबोधकथा > हनुमान द्वारा भीमस्य दर्प शमनम्
संस्कृतबोधकथा

हनुमान द्वारा भीमस्य दर्प शमनम्

डॉ.अमनदीप शर्मा
Last updated: 2023/12/07 at 3:52 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

हिमसंस्कृतवार्ताः, दिलीपः,संस्कृतशिक्षकः शिक्षाविभागः हिमाचलप्रदेशः
वनवासकाले एकदा द्रौपदी सहस्रदलं कमलं दृष्टवती । कमलमादाय सा भीमं प्रति कथयति यत् – हे भीम ! कृपया मह्यं एतादृशानि एव कमलानि आनयित्वा देहि । द्रौपद्या वचनानि श्रुत्वा भीमः अपि तादृशानि एव कमलानि संग्रहीतुं प्रस्थितवान्। कतिपय क्रोशा: गत्वा भीमः गन्धमदनपर्वतस्य शिखरस्य उपरि विशालमेकम् कदलीवनं पश्यति यस्मिन् सः प्रविष्टवान् ।

वायुपुत्र: हनुमान: अपि तस्मिन्नेव वने निवसति स्म । भीमस्य आगमनविषये ज्ञात्वा हनुमान: चिन्तयति यत् इत: अग्रे तु स्वर्गस्य मार्ग: अस्ति अतः भीमाय स्वर्गमार्गे गमनं अधिकं हानिकारकं भविष्यति । एवमेव सुविज्ञाय हनुमान: भीमस्य मार्गे गत्वा शयित:। यदा सहस्रदल कमलानि अन्वेष्यन् भीमसेन: तत्र प्राप्त: तदा सः पश्यति यत् मार्गे कोऽपि वृद्ध: वानर: पतित: शयित: चास्ति । भीम: वानराय कथयति – भो मूर्ख वानर ! मार्गात् दूरे अपसर । अहं अग्रे गन्तुमिच्छामि । स: वानर: रुग्ण: इव पतित: सन् मार्गात् दूरे न भवति सार्धमेव इदमपि कथयति यत्- हे मानव ! इतः अग्रे मा गच्छ । यतोहि ‘अद्य प्रभृति अयं पर्वतः मनुष्याणां कृते दुर्गमः एव अनुभूतोऽस्ति , अतः इतः प्रत्यागच्छ।’
श्रुत्वा च भीमः उवाच- ‘अहं मृत्युं प्रापयिष्यामि ,जीविष्यामि वा इति मा उपदिश । भवतः किं प्रयोजनम् ? त्वं केवलं इत: उत्थाय मार्गं ददासि न वा अन्यथा मरणाय सज्ज: भव ।’ हनुमानः अवदत् – ‘अहं व्याधिग्रस्तत्वात् चलने अस्मर्थोऽस्मि। अहं गन्तुं न शक्नोमि, त्वं मां लङ्घ्य गन्तुं शक्नोषि ।’ भीमः पुन: उवाच – ‘ इदं तु सर्वे जानन्ति यत् सर्वभूतानां शरीरे ईश्वर: अस्ति, अतः कस्यचितपि लङ्घनं कृत्वा अपमानं न कर्तव्यम्।’ तदा हनुमान: आह – ‘ यदि एतादृशा वार्ता अस्ति तर्हि त्वं मम पुच्छं गृहीत्वा मार्गात् च दूरे कृत्वा अपरदिशायां गच्छ।’
भीमः अपि तथैव कुर्वन् वानरपुच्छं उत्थापनार्थं प्रयतते परं सफल: न भवति । भीमस्य मुखं लज्जया प्रणत: जातः। सः क्षमायाचनां कृत्वा तस्य परिचयं पृच्छति। अथ अति अनुनय-विनयानन्तरं हनुमानः स्वविषये परिचयं दत्त्वा भीमं प्रति उपदिशति यत् सदा सत्ये दृढतया तिष्ठे, सर्वेषु प्राणिषु सर्वदा शिष्टः भवे: इति । केवलं सत्यता विनय: चैव शक्तिं पूजनीया कुरुत: । अतः स्वशक्त्या कदापि गर्वं मा कुर्या । तथा च निज शक्तिं सत्कर्मसु एव उपयुञ्जीत् । विनम्र: भूत्वा समाजे आदरणीयः भव। सार्धमेव इदं वरं अपि अददात् यत् अहं महाभारतयुद्धकाले विपदिकाले च अवश्यमेव भवतां साहाय्यं करिष्यामि ।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

सितम्बर-मासे रोहताङ्ग-प्रभृति-शिखरेषु हिमपातस्य शुभ्राच्छादनम्; त्रि-होराः यावत् स्थगिता मणिमहेश-यात्रा

शिवागम-साधकाः १८ सितम्बर-दिनाङ्के करिष्यन्ति डल-सरोवरावरण-भेदम्; तदनन्तरं प्रारप्स्यते पवित्रं ‘शाही-स्नानम्’

उद्यानपालकेभ्यः सर्वकारस्य महदोपहार:,एमआईएस-अन्तर्गतं प्रति-किलोग्रामं त्रीणि रूप्यकाणि वर्धिष्यन्ते सेव-मूल्यानि

TAGGED: भीम, महाभारत कथा, महाभारत में भीम, संस्कृतकथा, हनुमान और भीम, हनुमान के द्वारा भीम का अहंकार तोड़ना, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love1
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Next Article कर्मफलं वा ईश्वरेच्छा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?