By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आदर्शावासीयकन्या संस्कृतविद्यालये, भोपालनगरे संस्कृतसप्ताहस्य भव्यायोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आदर्शावासीयकन्या संस्कृतविद्यालये, भोपालनगरे संस्कृतसप्ताहस्य भव्यायोजनम्
संस्कृतगतिविधयः

केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आदर्शावासीयकन्या संस्कृतविद्यालये, भोपालनगरे संस्कृतसप्ताहस्य भव्यायोजनम्

डॉ.अमनदीप शर्मा
Last updated: 2025/08/09 at 9:15 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आदर्शावासीयकन्या संस्कृतविद्यालये, भोपालनगरे संस्कृतसप्ताहस्य भव्यायोजनम्
हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल: भोपालम्।संस्कृतभाषाया: संस्कृत्याश्च गौरवप्रसारणाय केन्द्रीयसंस्कृतविश्वविद्यालयस्य माननीयकुलपतिना प्रो. श्रीनिवासवारखेडीमहोदयस्य नेतृत्वे अखिलभारतीयपरिसरेषु संस्कृतसप्ताहमहोत्सवस्यायोजनं प्रचलतस्ति। तदन्तर्गते भोपालस्थिते आदर्शावासीय- कन्या- संस्कृतविद्यालये अपि नानाविधैः सांस्कृतिकैः शैक्षिकैः च कार्यक्रमैः सह उत्सवः सफलतया सम्पन्नः।भोपालपरिसरनिदेशकः प्रो. रमाकान्तपाण्डेयमहोदयः अस्य आयोजनस्य मार्गदर्शकः आसीत्। रंगोलिप्रतियोगिता, रक्षासूत्रनिर्माणप्रतियोगिता, गीतगायनम्, श्लोकपाठः, सांस्कृतिकनाट्यप्रस्तुतयः च कार्यक्रमस्य आकर्षणानि आसन्। विशेषतया रक्षाबन्धनमहोत्सवेन सह संस्कृतसप्ताहस्य समन्वयः सर्वेषां हृदयेषु हर्षं सञ्जनयामास।

व्याकरणविभागाध्यक्षः प्रो. सुबोधशर्मा विद्यार्थिनं सम्बोध्य अवदत्- “यावत् अस्मिन् भूमण्डले संस्कृतभाषा संस्कृतिश्च जीवतः, तावत् भारतस्य यशः प्रतिष्ठा च अक्षुण्णे भविष्यतः।” एवं प्रो. प्रदीपपाण्डेयमहोदयः उक्तवान्- “शिक्षा संस्कारवर्जिता अपूर्णा, संस्कारः तु संस्कृतेः अन्तःसलिले निहितः अस्ति। अतः संस्कृतस्य साधना अनिवार्या।”रक्षाबन्धनस्य महत्वं निरूपयन्तः वक्तारः अवदन्- “एषः पर्वः भ्रातृभगिन्योः स्नेहविश्वासयोः च प्रतीकः। प्राचीनकालेऽपि एषः केवलं पारिवारिकः नासीत्, अपि तु सामाजिकः धार्मिकश्च रक्षासंस्कारः, यत्र ऋषिभ्यः, मित्रेभ्यः, राजभ्यः च रक्षासूत्रं बध्यते स्म। अद्यापि तस्यैव संदेशः- सुरक्षा, प्रेम, कर्तव्यञ्च।”
कार्यक्रमः श्रीसरस्वत्याः पूजनदीपप्रज्वलनाभ्यां विधिवत् आरब्धः, धन्यवादप्रस्तावेन च सुष्ठु सम्पन्नः। अस्य कार्यक्रमस्य समन्वयकः प्रो॰ सोमनाथसाहू, डॉ. नरसिंह्मलू, विद्यालयस्य माननीयशिक्षकवर्गश्च उपस्थिताः आसन्।
जयतु संस्कृतम्!! जयतु भारतम्!!

You Might Also Like

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

*गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः सम्पन्न:*

संस्कृतभारत्याः काशीप्रान्तस्य प्रबोधनवर्गस्य समापन-दीक्षान्तकार्यक्रमः अद्य सुसम्पन्नः जातः।

TAGGED: भोपाल
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article संस्कृतसप्ताहः – परम्परायाः पुनरुद्धारः, राष्ट्रचेतनायाः नवोदयः
Next Article संस्कृतावाक्-दीक्षितमानसी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?