सञ्चारसार्थीति उपक्रमस्य साहाय्येन एककोट्यधिकाः अवैधदूरसम्पर्कसङ्ख्याः विच्छेद्यन्तेति-ज्योतिरादित्यसिन्धिया
हिमसंस्कृतवार्ताः। सम्प्रेषणमन्त्री ज्योतिरादित्यसिन्धिया इत्येषः अकथयत् यत् सञ्चारसार्थीति उपक्रमस्य साहाय्येन एककोट्यधिकाः अवैधदूरसम्पर्कसङ्ख्याः विच्छेद्यन्तेति। लोकसभायां अनुपूरकप्रश्नान् समुत्तरयन् श्रीसिन्धिया इत्येषः सूचितवान् यत् अस्मिन् पोर्टल् इत्यत्र पञ्चत्रिंशल्लक्षतोधिकाः जनाः चरवाण्याः चौर्यप्रकरणानाम् नामाङ्कनं कृतवन्तः। सः अवदत् यत्, तेषु एकविंशतिलक्षतोऽधिकानि चोरितानि मोबाइल-यन्त्राणि च अन्विष्टानि, पञ्चलक्षाधिकानि यन्त्राणि स्वामिभ्यः प्रत्यर्पितान्यपि।
सञ्चारसार्थीति उपक्रमस्य साहाय्येन एककोट्यधिकाः अवैधदूरसम्पर्कसङ्ख्याः विच्छेद्यन्तेति-ज्योतिरादित्यसिन्धिया
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
