By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतवार्ता:-भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > संस्कृतवार्ता:-भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम्
राष्ट्रीयवार्ताःअन्ताराष्ट्रीयवार्ताः

संस्कृतवार्ता:-भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम्

डॉ.अमनदीप शर्मा
Last updated: 2025/06/28 at 6:59 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

संस्कृतवार्ता: भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम्

हिमसंस्कृतवार्ता: – भारतेन स्थापितं तन्त्रं कायाकल्पं कृत्वा चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तं तथा च विंशत्यधिक-द्विसहस्रतमे वर्षे सीमाविरोधस्यानन्तरं द्वयोः राष्ट्रयोः मध्ये निर्मितस्य विश्वासघातं निवारणाय आह्वानं कृतम्। अवधेयमस्ति यत् नवदेहल्यां भारत-चीन सीमायां शान्तिं सौहार्दं च स्थापयितुम्, स्थायी-सङ्गतिं-विस्तारस्य च संरचित-मार्गचित्रेण समस्यानां समाधानस्य आवश्यकताम् अपि उक्तम्। चीनदेशे शङ्घाईसहयोगसङ्गठनस्य (एससीओ) रक्षामन्त्रिणां उपवेशनस्य अनन्तरं रक्षामन्त्री राजनाथसिंहः चीन-देशीयेन स्वसमकक्षेन एड्मिरल् डोङ्ग जुन् इत्यनेन सह द्विपक्षीयोपवेशनं कृतम्। श्रीसिंहः द्विपक्षीयसम्बन्धेषु सामान्यता पुनः आनेतुं उभयपक्षाभ्यां क्रियमाणं कार्यं स्वीकृतवान्। रक्षामन्त्री स्वसमकक्षं सद्यःएव पहलगामे आतङ्क्याक्रमणस्य विषये, पाकिस्ताने आतङ्कवादीनां स्थानानां विध्वंसनम् उद्दिश्य भारतस्य सिन्दुराभियानस्य विषये च उक्तवान्।

भारतेन रूसदेशेन सह एस-400 प्रणालीनां आपूर्तिः, एस.यू-30 एम. के. आई. उन्नयनं, समयसीमायां महत्त्वपूर्णसैन्य उपकरणानां क्रयणस्य च विषये चर्चा कृता ।

हिमसंस्कृतवार्ता: – भारतेन रूसदेशेन सह एस-400 प्रणालीनाम् आपूर्तिः, एस.यू-30 एम. के. आई. उन्नयनं, समयसीमायां महत्त्वपूर्णसैन्य-उपकरणानां क्रयणस्य च विषये चर्चा कृता अस्ति। चीनदेशस्य किङ्गदाओ-नगरे शङ्घाईसहयोगसङ्गठनस्य (एससीओ) रक्षामन्त्रिणां उपवेशनावधौ रक्षामन्त्रिणः राजनाथसिंहस्य रूसीसमकक्षेन आन्द्रे बेलोसोवेन सह द्विपक्षीयोपवेशनम् अभवत्। मन्त्रिणौ वर्तमानभूराजनीतिकस्थितयः, सीमापार आतङ्कवादः, भारत-रूस-रक्षासहयोगं च समेत्य अन्येषु विषयेषु गहनविमर्श कृतवन्तौ। अस्मिन् उपवेशने रूसदेशस्य रक्षामन्त्री दीर्घकालिक भारत-रूस-सम्बन्धानां प्रकाशनं कृत्वा, पहलगाम-आतङ्क-आक्रमणस्य विषये भारतेन सह एकतां प्रकटितवान्।

भारतेन चीनदेशे शङ्घाई सहयोग सङ्गठनस्य रक्षामन्त्रिणां उपवेशनस्य संयुक्तं प्रतिवेदनं न हस्ताक्षरितम्।

हिमसंस्कृतवार्ता: – विदेशमंत्री डॉ. एस.जयशङ्करेण उक्तं यत् भारतेन चीनदेशे शङ्घाई-सहयोग-सङ्गठनस्य रक्षामन्त्रिणां उपवेशनस्य संयुक्तं प्रतिवेदनं न हस्ताक्षरितम्। यतोहि तत् प्रतिवेदने आतङ्कवादस्य सन्दर्भः समाविष्टः न आसीत्। नवदेहल्यां वार्ताहरैः सह सम्भाषणं कुर्वन् डॉ. जयशङ्करः प्रोक्तवान् यत् शङ्घाई-सहयोग-सङ्गठनस्य निर्माणं आतङ्कवादस्य उद्देश्यं कृत्वा निर्मितम्। सः अवदत् यत् रक्षामन्त्री राजनाथसिंहः स्पष्टतया उक्तवान् यत् यदि संयुक्तप्रतिवेदने आतङ्कवादस्य उल्लेखः न भविष्यति तर्हि भारतं हस्ताक्षरं नैव करिष्यति।

ओडिशा राज्यस्य पुरी-नगर्यां भगवतः जगन्नाथस्य विश्व-प्रसिद्धा वार्षिकी रथयात्रा समारब्धा ।

हिमसंस्कृतवार्ता: – ओडिशा-राज्यस्य पुरी-नगर्यां भगवतः जगन्नाथस्य विश्व-प्रसिद्धा वार्षिकी रथयात्रा गतदिवसे आरब्धा । मन्यते यत् जून-जुलाई-मासयोः संजायमाणे प्रसिद्धे उत्सवे भगवान-जगन्नाथः तस्य अग्रजः बलभद्रः, कनिष्ठा भगिनी च देव्याः सुभद्रायाः विग्रह-रथेषु आरूह्य दर्शनं प्रददति। सममेव मातृस्वसायाः गृहं गुंडिचा-मन्दिरं गन्तुं सज्जाः कुर्वन्ति। ते गुंडिचा-मन्दिरे नवदिनानि यावत् प्रवासं अपि कुर्वन्ति। मन्दिरप्रशासनस्यानुसारं अस्मिन् वर्षे उत्सवे प्रायः त्रयोदशलक्षमिताः भक्ताः भागं ग्रहीष्यन्ति ।

भारतेन सह अतीव-महत्वपूर्णं सन्धिज्ञापनं शीघ्रमेव भविष्यति – अमेरिकीय राष्ट्रपतिः डॉनल्डट्रम्पः ।

हिमसंस्कृतवार्ता: – अमेरिकीय राष्ट्रपतिः डॉनल्डट्रम्पः उक्तवान् यत् भारतेन सह अतीव-महत्वपूर्णं सन्धिज्ञापनं शीघ्रमेव भविष्यति। राष्ट्रपतिः अवदत् यत् अमेरिका चीनदेशेन सह सन्धिं कृतवान् अस्ति। एकस्मिन् कार्यक्रमे प्रवदन् श्रीट्रम्पः अवदत् यत् ते चीनदेशेन सह अधुना एव सन्धिं कृतवन्तः । भारतेन सहापि शीघ्रमेव एकं बृहत्-सन्धि-ज्ञापनं भविष्यति। अन्यैः राष्ट्रै: सह सन्धयः न भविष्यन्ति इति ट्रम्पः प्रतिपादितवान् । ध्यातव्यमस्ति यत् चीनदेशेन सह कृतस्य सन्धेः विवरणं ट्रम्पेन न प्रदत्तम्।

भारतीयऋतु-विभागेन आगामिषु द्वि-त्रिदिवसेषु सम्पूर्णदेशे प्रावृटागमनस्य अनुमानं कृतमस्ति ।

हिमसंस्कृतवार्ता: – भारतीयऋतु-विभागेन आगामिषु द्वि-त्रिदिवसेषु सम्पूर्णदेशे प्रावृटागमनस्य अनुमानं कृतमस्ति । ऋतुविज्ञानविभागेन सौराष्ट्र-कच्छनगर्योः च अत्यन्तं प्रचण्डवृष्टेः संभावना प्रकटिता । भारतीय ऋतुविज्ञानविभागस्य वैज्ञानिकः नरेश कुमारः अवदत् यत् देशस्य पश्चवर्तिषु क्षेत्रेषु अतीव प्रचण्डवृष्टेः संभावना वर्तते। हिमाचलप्रदेशे विगतेषु दिवसेषु सञ्जाते प्रचण्डवृष्टेः अनन्तरं राजधान्यां शिमलायां अपि च राज्यस्य विभिन्नेषु भागेषु सघन मेघाः आच्छादिताः आसन्। तथापि केभ्यः स्थानेभ्यः लघुवृष्टेः सूचनाः प्राप्ताः सन्ति । तत्रत्य प्रचण्डवृष्ट्या, जलप्लावन-कारणेन च अष्ट-जनाः मृताः। अपि च, द्वौ राष्ट्रियराजमार्गों, द्वौ जलविद्युत्प्रकल्पौ च क्षतिग्रस्तौ सञ्जातौ। हिमाचलप्रदेशस्य कांगड़ा जनपदस्य खनियारानगरस्य मनुनी नालिकातः पञ्चशवः प्राप्ताः सन्ति। यत्र आकस्मिकजलप्रलयेन अष्ट-श्रमिकाः जलव्याप्ताः आसन्। त्रयः जनाः अधुनापि लुप्ताः इति ज्ञापिताः सन्ति। तत्रत्य जनान् अन्वेष्टुं सहाय्योद्धाराभियानं प्रचलति । ऋतुविज्ञानविभागेन वर्षायाः कृते पीतसंचेतना प्रसारिता। मुख्यमन्त्री ठाकुर-सुख-विंदर-सिंह-सुक्खूः सर्वान् उपायुक्तान् अस्मिन् ऋतौ प्रतिकूलसमयावधौ सक्रियतां संधारणस्य निर्देशाः प्रदत्ताः।

पाकिस्तानस्य जैश-ए-मोहम्मद इत्यस्य गुल्मस्य त्रयः आतङ्कवादिनः निगडितुं सुरक्षा-बलानाम् अन्वेषणकार्यक्रमं आरब्धम्।

हिमसंस्कृतवार्ता: – जम्मू-कश्मीरस्य उधमपुरनगरस्य एकस्मिन् वन्यक्षेत्रे पाकिस्तानस्य जैश-ए-मोहम्मद इत्यस्य गुल्मस्य त्रयः आतङ्कवादिनः निगडितुं सुरक्षा-बलानाम् अन्वेषणकार्यक्रमं आरब्धमस्ति। प्राप्तवार्तानुसारं सुरक्षाबलेन सह संघर्षे एकः आतङ्कवादी मारितः। तस्य त्रयाणां सहचराणां बसन्तगढ़स्य वन्यक्षेत्रे निगडनं न सञ्जातम्। तत्रत्य सुरक्षाबलैः सम्पूर्णक्षेत्रे अन्वेषणकार्यक्रमः अधुना अपि प्रचलति ।

You Might Also Like

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

विदेशमन्त्री डा. एस्. जयश‌ङ्करः फ्रान्स-देशस्य राष्ट्रपतिना इमेनुएल मैक्रों इत्यनेन सह मिलितवान्

TAGGED: संस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान
Next Article हिमाचलवार्ता:-
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?