प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्रायां जाग्रेबनगरम् संप्राप्तवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्राम् आरभते; असौ क्रोएशियादेशस्य प्रधानमन्त्रिणा प्लेन्कोविच् इत्यनेन सह वार्तालापं कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्रायां जाग्रेबनगरम् संप्राप्तवान्। क्रोएशियादेशस्य एषा यात्रा भारतस्य प्रधानमन्त्रिणः प्रथमा यात्रा अस्ति। एषा यात्रा द्विपक्षीयसम्बन्धेषु नूतनं अध्यायं योजयिष्यति। अनया यात्रया रणनीतिसहकार्य अधिकं सुदृढं भविष्यति इति अपेक्षा अस्ति। अस्यां यात्रायां प्रतिनिधिमण्डलस्तरस्य वार्ताः, प्रमुखक्षेत्रेषु सन्धयः, सांस्कृतिककूटनीतयः च समाविष्टाः सन्ति। अस्यां यात्रायां भारत-क्रोएशिया-देशयोः विज्ञान-प्रौद्योगिक्याः, कृषि-शिक्षा-संस्कृतेः च प्रमुखेषु क्षेत्रेषु संधि – हस्ताक्षरं भविष्यति। सांस्कृतिकविनिमयकार्यक्रमस्य त्रिंशउत्तरद्विसहस्र-पर्यन्तं विस्तारस्य विषये अपि संधि हस्ताक्षरं भविष्यति, यस्मिन् प्रदर्शनकला, संग्रहालयाः, पुरातत्वविज्ञानं, मीडिया इति च समाविष्टाः सन्ति । जाग्रेबविश्वविद्यालये हिन्दी अध्यक्षस्य अपि विस्तारः भविष्यति, येन भारतस्य भाषावज्ञानिक-शक्षणिक-प्रसाराय प्रवर्धनं भविष्यति । भारत-यूरोपीयसङ्घस्य मुक्तव्यापारसंधि-सन्दर्भ अपि च यूरोप-मध्यपूर्व-भारतं सम्बद्धानां व्यापक-संपर्क- सन्दर्भ द्वयोः देशयोः समन्वयस्य सम्भावनाः अपि अन्वेष्टव्याः इति अपेक्षा अस्ति।
भारतेन पाकिस्तानेन सह समस्यानां समाधानार्थं तृतीयपक्षस्य मध्यस्थता कदापि न स्वीकृता, कदापि न स्वीकरिष्यते – प्रधानमन्त्री नरेन्द्रमोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना अमरीकीयराष्ट्रपति डोनाल्ड ट्रम्प: इत्यमुं दृढतया उक्तं यत् भारतेन पाकिस्तानेन सह समस्यानां समाधानार्थं तृतीयपक्षस्य मध्यस्थता कदापि न स्वीकृता, कदापि न स्वीकरिष्यते। श्रीमोदी राष्ट्रपतिना ट्रम्पेन सह दूरभाषेण वार्तालापं कृत्वा सद्यएव सिन्दूराभियानस्य विषये चर्चा कृतवान्। भारत-पाकिस्तानयोः मध्ये युद्धविरामस्य श्रेयग्रहणे अमरीकीयराष्ट्रपतेः पुनर्वचनानां उपरि प्रधानमन्त्रिणः एतत् वक्तव्यं आसीत्। विदेशसचिवः विक्रममिस्री इत्यनेन उक्तं यत् पञ्चत्रिंशन्निमेषात्मके वार्तालापस्य कालखण्डे प्रधानमन्त्रिणा श्रीट्रम्पाय स्पष्टतया ज्ञापितं यत् भारत-अमरीका-व्यापारसम्बन्धानां विषये अथवा भारत-पाकिस्तानयोः मध्ये सख्यकार्याणि स्थगयितुं भारतेन अमरीकायाः मध्यस्थतायाः विषये कदापि कस्मिन् अपि स्तरे वार्ता न कृता। श्रीमिस्री सूचितवान् यत् प्रधानमन्त्रिणा मोदिना एतत् बोधितं यत् नवदिल्ली इदानीं आतङ्कवादस्य कार्याणि छद्मकार्याणां रूपेण न पश्यति अपितु युद्धात्मक व्यवहारं करिष्यति। प्राप्तवार्तानुसारं श्रीमोदी-राष्ट्रपति ट्रम्पयोः मध्ये कनाडादेशे जी-7 शिखरसम्मेलने एव मेलने निश्चितम् आसीत्, परञ्च ट्रम्पस्य पूर्वमेव अमरीकादेशं प्रत्यागमनम् अभवत्, यस्मात् कारणात् उपवेशनम् स्थगितम्।
प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्रायां जाग्रेबनगरम् संप्राप्तवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
