By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: उज्जयिन्यां राष्ट्रियशास्त्रार्थ प्रशिक्षण-कार्यशालाया:समारोप:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > उज्जयिन्यां राष्ट्रियशास्त्रार्थ प्रशिक्षण-कार्यशालाया:समारोप:
संस्कृतगतिविधयः

उज्जयिन्यां राष्ट्रियशास्त्रार्थ प्रशिक्षण-कार्यशालाया:समारोप:

जगदीश डाभी
Last updated: 2025/03/02 at 9:04 PM
जगदीश डाभी
Share
1 Min Read
SHARE

उज्जयिन्यां राष्ट्रियशास्त्रार्थ प्रशिक्षण-कार्यशालाया:समारोप:

डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:)

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य व्याकरणविभागेन नवदेहलीस्थ केन्द्रीयसंस्कृतविश्वविद्यालयस्य आर्थिकसहयोगेन १९ फरवरीतः 25 फरवरी पर्यन्तं सप्तदिवसात्मिका राष्ट्रियशास्त्रार्थप्रशिक्षणकार्यशाला आयोजिता आसीत्। समापनसत्रे मुख्यातिथिरूपेण जयपुरस्थ श्रीजगद्गुरुरामानन्दाचार्य राजस्थानसंस्कृतविश्वविद्यालयस्य वेदविभागस्य विभागाध्यक्षचर:, आचार्य: राजेन्द्रप्रसादमिश्रवर्य: उपस्थितः आसीत्। आचार्येण स्ववक्तव्ये उक्तं यत् व्याकरणशास्त्रं मुखरूपेण स्मृतम् अस्ति। व्याकरणस्य ज्ञानस्य अभावे असाधुप्रयोगा: व्यवहारे आयान्ति। अतः व्याकरणस्य अध्ययनम् अनिवार्यरुपेण कर्तव्यम् एव। सम्प्रति महर्षिपाणिनि:, आचार्यभर्तृहरि: इत्यादीनां वैय्याकरणानां परम्परायाः संरक्षणस्य महती आवश्यकता वर्त्तते। मिश्रवर्येण भारतस्य विश्वप्रसिद्धा वाक्यार्थ परम्परायाः रक्षणार्थं छात्रा: प्रेरिता:। कार्यशालायां प्रशिक्षकरूपेण उपस्थितः तिरुपतिस्थ राष्ट्रियसंस्कृतविश्वविद्यालयस्य व्याकरणविभागस्य प्रमुख: प्रो.पंकजव्यासमहोदयेन अवदत् यत् शास्त्राध्ययनपरम्परा प्राचीनकालात् अद्यावधि पर्यन्त प्रचलति अस्ति। सर्वेषु शास्त्रेषु वादविवादव्यवस्था वर्तते। भारतीयज्ञानव्यवस्था एतया परम्परया एव रक्षिता अस्ति । कार्यशालायाः उद्देश्यं प्रतिवेदनं च प्रस्तुवन् संयोजकेन डॉ. अखिलेशकुमारद्विवेदीमहोदयेन उक्तं यत् भर्तृहरिविरचितं वाक्यपदीयस्य साधनसमुद्देशाधा रितायां कार्यशालायां त्रिंशत् छात्रा: शास्त्रप्रशिक्षणं प्राप्तवन्तः। कृतज्ञता कुलसचिवेन प्रो.दिलीपसोनी महोदयेन संचालनं च डॉ. अनुरुद्धकुमारत्रिपाठीवर्येण कृतम्। प्रो.रामसालाहीद्विवेदी, नईदिल्ली, प्रो.प्रदीपकुमार पाण्डेय:,भोपालम्, प्रो.पंकजव्यास:,तिरुपति:,डॉ. लवलेशमिश्र:, दतिया शास्त्रप्रशिक्षणं दत्तवन्तः।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

LBS विश्वविद्यालये “AI-युगे शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये सार्थक-विमर्शः

पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्

TAGGED: केन्द्रीय संस्कृत विश्वविद्यालय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article सर्वज्ञानाधारःभगवान्छिव: डॉ. ऋषिराज पाठक: 
Next Article जयरामठाकुरः २७ वर्षपूर्वम् अद्यैव विधायकः अभवत्, सामाजिकमाध्यमेषु चित्राणि प्रसारितवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?