गृहमन्त्रालयेन मणिपुरस्य सर्वेषु मर्गेषु जनानां निर्बाधतया आवागमनं सुनिश्चितुं निर्देशः प्रदत्तः
केन्द्रीयगृहमंत्री अमिशाहेन मणिपुरराज्ये सुरक्षास्थितेः समीक्षायै नवदिल्ल्यां समीक्षोपवेशनम् समाहूतम्। तथा च मार्चमासस्य अष्टम-दिनाङ्कात् राज्यस्य सर्वेषु मर्गेषु जनानां निर्बाधतया आवागमनं सुनिश्चितुं निर्देशोऽपि प्रख्यापितः। मणिपुरस्य राज्यपालस्य अजयकुमारभल्ला इत्येतस्य उपस्थितौ अस्य समीक्षोपवेशनस्य अध्यक्षतां कुर्वन् श्रीशाहः मार्गेषु अवरोधं जनयमानानां जनानां विरूद्ध काठिन्यं कार्याचरणं कर्तुं निर्देशं प्रदत्तवान्। श्रीशाहः निर्दिष्टवान् यत् मणिपुरस्य अन्ताराष्ट्रिय सीमायां निर्दिष्टानां प्रवेशस्थानानाम् उभयोः स्थानयोः वेष्टनकार्यं यथाशीघ्रं समापयेत् इति। उपवेशनावधौ श्रीशाहः मादकद्रव्याणां अवरोधनं कृत्वा प्रोक्तवान् यत् नरेन्द्रमोदिप्रशासनं मणिपुरराज्ये स्थायिशान्तिं स्थापयितुं पूर्णतया प्रतिबद्धं वर्तते। एतस्मिन् प्रकरणे च आवश्यकं साहाय्य-मपि प्रददाति । विगतमासे राज्येऽस्मिन् राष्ट्रपतिशासनान्तरं इदं प्रथमोपवेशनम् सञ्जातम्।
गृहमन्त्रालयेन मणिपुरस्य सर्वेषु मर्गेषु जनानां निर्बाधतया आवागमनं सुनिश्चितुं निर्देशः प्रदत्तः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
