बाइडेनप्रशासनम्-पूर्वप्रतिबन्धात्मक-क्षमादानानि वर्तमानेभ्यः पूर्वतनेभ्यः अधिकारिभ्यः दीयमानानि वा न
(ईदरधीरजः, हैदराबादः) पूर्वप्रतिबन्धात्मक-क्षमादानानि वर्तमानेभ्यः पूर्वतनेभ्यः अधिकारिभ्यः दीयमानानि वा न वा इति बय्डन-प्रशासनं विचाररतम् अस्ति। भयमस्ति यत् डोनाल्डट्रम्पस्य राष्ट्रपतिपदपुनर्ग्रहणेन तेषाम् अधिकारिणां राजनीतिप्रेरिताः विचारणाः भवेयुः। ट्रम्पेन कश्यपपट्टकिलस्य एफ़्बीऐशासितृरूपेण नियुक्तेः पश्चात् आन्तरिकचर्चेयम् आरब्धम्। नियुक्तिरियं भाविराष्ट्रपत्युः निन्दकान् शत्रून् च विरुध्य अभियोगान् निर्वोढुं सङ्केतः इव मन्यते।
श्वेतभवनस्य न्यायवादिनः एडसिस्केलस्य आध्यक्ष्ये निरूढायाः चर्चायाः विषयः आसीत् तान् व्यक्तीन् रक्षयितुम् ये ट्रम्पेन पदग्रहणात् निरूपणविधेयाः भवेयुः। क्षमादानाय विचारितेषु आदमषिफ़ः लिज़चेनेयः च इति पोलिटिकोप्रकाशनेन प्रकाशितम्। आदमषिफ़ः प्रजातान्त्रिकदलसदस्यः पूर्वसांसदः अपिच जनवरीमासस्य षष्ठे संसद्भवने सञ्जातस्य आक्रमणस्य विचारणार्थं समितिसदस्यः। लिज़चेनेयः तु तीव्रट्रम्पनिन्दिका पूर्वतनसांसदा गणतान्त्रिकदलसदस्या।
अन्यतमः तु आन्तनिफ़ौचि-वैद्यः राष्ट्रीय-अधिहृषता-सङ्क्रामकरोगचिकित्सा-संस्थायाः पूर्वाध्यक्षः यः ट्रम्पस्य ट्रम्पमित्राणां च निन्दपात्रम् आसीत् कोविड्-महामारीकाले। चिन्तायाः आधारः अस्ति यत् पूर्वं ट्रम्पेन राजनैतिकप्रतिपक्षः लक्षीकृतः अपिच ईदृशां व्यक्तीनां विचारणां कर्तुं ट्रम्पप्रशासनं समर्थम् अस्ति इति। विना अभियोगैः पूर्वप्रतिबन्धात्मक-क्षमादानानि तीव्र-राजनैतिक-प्रतिक्रियाम् आकर्षयति इति संभावना विद्यते यतोहि क्षमादानैः अपराधः वा अनैतिकता वा सूच्यते।
षिफ़ः इत्यादिनः केचन तु स्वचिन्तां प्रदर्शयन्तः कथितवन्तः यत् क्षमादानानि अपराधं सूचयन्ति। अयं विवादः सूचयति यत् गणतान्त्रिकदलस्य अन्तः वरिष्ठाः चिन्ताः विद्यन्ते यत् ट्रम्पः राजनैतिकप्रतिशोधं कर्तुं कियद्दूरं गच्छेत्। विधिज्ञाः श्वेतभवनसाहायकाः च बिभ्यति यत् केवलं विचारणाभर्त्सनानि आर्थिकपीडां व्याकुलतां च लक्ष्येभ्यः दातुं शक्नुवन्ति। सङ्घीयविचारणां सम्मुखीकर्तुं विधिसम्बन्धिशुल्काः अधिकाः।
क्षमादानानि संबन्ध्य विवादः बय्डन-राष्ट्रपतिना दत्तैः इतोऽपि कष्टतरः अभवत्। बय्डनः स्वपुत्राय करसम्बन्ध्यपराधान् संबन्ध्य क्षमादानं दत्तवान्। स्वकीये पूर्वप्रशासनकाले ट्रम्पेन विशेषतः षिफ़ः चेनेयः च लक्षीकृतौ। उभयोः निग्रहणार्थमपि ट्रम्पेन आग्रहः कृतः। कोविड्-काले तु विवादविषयकः भूतवान् फ़ौचिः प्रतिकारार्थं संप्रत्यपि अपि ट्रम्पसमर्थकानां संभाव्यं लक्ष्यम् अस्ति।
ईदृशानि क्षमादानानि दत्त्वा प्रभावाः के इति प्रश्नस्य उत्तरं संप्रतिप्रशासनम् अन्विच्छति।
बाइडेनप्रशासनम्-पूर्वप्रतिबन्धात्मक-क्षमादानानि वर्तमानेभ्यः पूर्वतनेभ्यः अधिकारिभ्यः दीयमानानि वा न
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
