संविधानदिवसः- २६ नवम्बर दिनांकः भारते संविधानदिवसरूपेण आचर्यते
भारतगणराज्यस्य संविधानस्य निर्माणं २६ नवम्बर् १९४९ तमे वर्षे अभवत् । प्रथमवारं सम्पूर्णे भारते भारतसर्वकारेण २६ नवम्बर २०१५ दिनाङ्के संविधानसभायाः प्रारूपणसमितेः अध्यक्षस्य डॉ. भीमराव अम्बेडकरस्य १२५ तमस्य जन्मदिवसस्यावसरे संविधानदिवसः आचरितः। भारतं प्रतिवर्षं २६ नवम्बर २०१५ तः आरभ्यः संविधानदिवसस्य आचरणं कुर्वन्नस्ति यत् पूर्वं राष्ट्रियकानूनदिवसः इति रूपेण आचर्यते स्म। संविधानसभा भारतस्य संविधानं २ वर्षेषु, ११ मासेषु, १८ दिवसेषु च सम्पन्नं कृत्वा २६ नवम्बर् १९४९ तमे वर्षे राष्ट्राय समर्पितवती । गणतन्त्रभारते १९५० तमे वर्षे जनवरीमासे २६ दिनाङ्कात् संविधानं प्रवर्तितम् ।
भारतीयैः बहुदशकपूर्वात् संविधानदिवसः आचर्यते स्म । डॉ. भीमराव अम्बेडकरस्य योगदानस्य चिह्नरूपेण भारतसर्वकारेण प्रथमवारं २६ नवम्बर २०१५ दिनाङ्के आचरितः, किञ्च २६ नवम्बर २०१५ तः सम्पूर्णे भारते प्रतिवर्षं संविधानदिवसः आचर्यते । २६ नवम्बर संविधानस्य महत्त्वं तथा च डॉ. भीमराव अम्बेडकरस्य विचारान् अवधारणाः च प्रसारयितुं दिवसविशेषः अस्ति । अयं दिवसः संविधाननिर्माणसमितेः वरिष्ठसदस्यस्य डॉ. सर हरिसिंहगौरस्य जन्मदिवसः अपि अस्ति।
संविधानदिवसः- २६ नवम्बर दिनांकः भारते संविधानदिवसरूपेण आचर्यते
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
