प्रधानमन्त्री-नरेन्द्रमोदी स्पेनदेशस्य च प्रधानमन्त्री पेड्रो साञ्चेजइत्येषः गुजरातस्य वोदरायां टाटा-एयर क्राफ्ट कॉम्पलेक्स-इत्येतस्य संयुक्तरूपेण उद्घाटनं कृतवन्तौ
हिमसंस्कृतवार्ता:। प्रधानमन्त्री-नरेन्द्रमोदी स्पेनदेशस्य च प्रधानमन्त्री पेड्रो साञ्चेजइत्येषः गुजरातस्य वोदरायां सी-पञ्चनवत्यधिक-द्विशतं इत्याख्यस्य विमानस्य विनिर्माणाय टाटा-एयर क्राफ्ट कॉम्पलेक्स-इत्येतस्य संयुक्तरूपेण उद्घाटनं कृतवन्तौ इयं भारते सैन्य-विमानस्य विनिर्माणाय सर्वकारीयेतर-क्षेत्रस्य प्रथमा अन्तिमा संयुक्तपट्टिकास्ति । अत्रावसरे प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् टाटा-विमानन- परिसरः वैश्विक-वैमानिकीय-विनिर्माणे एकत्वेन विश्वसनीय सहभागिरूपेण भारतस्य स्थितिं सुदृढं करोतीति ।
प्रधानमन्त्री अत्रावसरे रक्षाक्षेत्रस्य अद्वितीयविकासगतिम् अपि उल्लिखितवान्। असौ अवोचत् यत् देशे जीवन्तं रक्षा-उद्योग-निर्माणं प्रति तस्य प्रशासनेन अनेके पदक्षेपाः उत्थाप्यन्ते ।
खाद्यपदार्थ-चलचित्र-पादकन्दुक-इत्येतेषां माध्यमेन भारतस्पेनदेशयोः जनानां प्रबलसम्बन्धान् आधृत्य प्रधानमन्त्री अकथयत् यत् उभौ देशौ षड्विंशत्यधिक-द्विसहस्रतमवर्षयावत् संस्कृति-पर्यटन-कृत्रिम-मेधानां वर्षत्वेन आपानयितुं निर्णयनिर्णीतवन्तौ। अत्रावधौ स्पेनदेशीयः प्रधानमन्त्री पेड्रो साञ्चेजइत्यसौ अवोचत् यत् एयरबस-टाटा-इत्यनयोः मध्ये उदीयमानं सहभागित्वं भारतीय वैमानिकीय-उद्योगस्य प्रगतये योगदानं प्रदास्यति। अपि च यूरोपसम्बद्धेभ्यः समवायेभ्यः नवीनान् अवसरान् अपि दास्यति। उभौ नेतारौ प्रतिनिधिमण्डलस्तरीयाः वार्ताः अपि समाचरितवन्तौ। अवधेयं वर्तते यत् प्रधानमन्त्री श्रीमोदी गुजरातस्य अमरेलीस्पाने नवशताधिक- चतुः सहस्रकोटिरूप्यकाणां परिव्ययस्य परियोजनानाम् आधाररशिलामपि स्थापितवान्। उभौ नेतारौं अत्रावसरे विमानपत्तस्थानकात् टाटा-विमान-परिसरं यावत् पथप्रदर्शनं कृतवन्तौ।