By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः- प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशीयः शासनाध्यक्षः ओलाफ्-शोल्ज़ इत्यनेन सहाध्यक्षतां कृतवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः- प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशीयः शासनाध्यक्षः ओलाफ्-शोल्ज़ इत्यनेन सहाध्यक्षतां कृतवान्
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः- प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशीयः शासनाध्यक्षः ओलाफ्-शोल्ज़ इत्यनेन सहाध्यक्षतां कृतवान्

डॉ.अमनदीप शर्मा
Last updated: 2024/10/25 at 9:45 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशीयः शासनाध्यक्षः ओलाफ्-शोल्ज़ इत्यनेन सहाध्यक्षतां कृतवान्
प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशीयः शासनाध्यक्षः ओलाफ्-शोल्ज़ इत्येषः च मध्याह्ने नवदिल्ल्यां सप्तमस्य अन्तासर्वकारीय-परामर्शस्य आई.जी.सी. इत्येतस्य सम्मेलनस्य सहाध्यक्षतां कृतवन्तौ। आई.जी.सी. इति एका सम्पूर्ण-सर्वकारीय-संरचनास्ति यस्याः अन्तर्गतं उभयोः देशयोः मन्त्रिणः स्वलक्षितेषु कर्तव्ययुतक्षेत्रेषु चर्चा कुर्वन्ति इति अपि च विचारविर्मशानां परिणामाः प्रधानमन्त्रिणे शासनाध्यक्षाय च प्रस्तुवन्ति । कार्यक्रम सम्बोधयन् प्रधानमन्त्री श्रीमोदी उक्तवान् यत् उभौ देशौ द्वाविंशत्यधिक- ‌द्विसहस्रतमे वर्षे जाते एतस्मिन्नेव सम्मेलने द्वि-पक्षीय सहयोगाय महत्वपूर्ण निर्णयाः स्वीकृतवन्तौ। विगतद्वये वर्षे रणनीतिकसम्बन्धानां विभिन्नक्षेत्रेषु अभूतपूर्व-प्रगतिरपि जाता। अत्रावसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सूचितं यत् जर्मनी देशेन कुशल-भारतीय-व्यावसायिकानां वार्षिकं पारगमनानुमतिपत्रस्य आरक्षणं विंशति सहस्रतः नवतिसहस्रं यावत् वर्धयितुं निर्णयः कृतः इति। प्रतिभा-प्रौ‌द्योगिकी- नवाचार-अवसंरचनाः च भारतस्य विकासस्य साधनानि सन्ति इति प्रधानमन्त्री अवदत्। असौ अग्रे ख्यापितवान् यत् अद्यतनीयं भारतं लोकतन्त्रस्य, जनसा‌ङ्ख्यिक्यः, आग्रहस्य दत्तांशस्य च चतुषु दृढस्तम्भेषु स्थितम् अस्ति। भारत-जर्मनी-देशयोः सम्बन्धः प्रत्येकस्मिन् स्तरे सुदृढो भवति। अपि च एतत् भारत-जर्मनी रणनीतिकसहभागित्वस्य पञ्चविंशतितमं वर्षम् अस्ति, आगामिनः इतोऽपि पञ्चविंशति वर्षाणि अस्मै सम्बन्धाय नूतनम् औन्नत्यं ददति इति। श्रीमोदी अवदत् यत् अद्य भारतं विविधीकरणस्य, सङ्कट-निवारणस्य च बृहत्तमं केन्द्र जायमानम् अस्तीति। सः इदमपि अवदत् यत् भारत-प्रशान्तक्षेत्रं विश्वस्य भविष्यस्य कृते अतीवमहत्त्वपूर्णमस्ति इति। जर्मन-व्यापारस्य अष्टादशमे एशिया-प्रशान्तसम्मेलने निजभाषणसमये जर्मनदेशीयः शासनाध्यक्षः ओलाफ शोल्ज़-इत्येसौ प्रोक्तवान् यत् भारतं विश्वस्य बृहत्तमं लोकतन्त्रं, द्रुतगत्या वर्धमाना प्रमुखा अर्थव्यवस्थापि अस्ति, अनेन भारत-जर्मनी-देशयोः मध्ये समन्वयं वर्धयितुं अपि बलं दत्तम् ।

वञ्चितवर्गस्य सेवां प्राधान्यं दत्वा चिकित्साविद्यार्थिभिः आग्रहं कृतवती राष्ट्रपतिः द्रौपदीमुर्मू
राष्ट्रपतिपदासीना द्रौपदी मुर्मूइत्येषा वञ्चितवर्गस्य सेवाः प्राधान्यं दातुम् चिकित्साविद्यार्थिभिः आग्रहं कृतवती । राष्ट्रपतिः अवोचत् यत् दूरस्थेषु क्षेत्रेषु निवसतां जनानां कल्याणार्थं नवीनतमानां चिकित्सा-तन्त्राणां उपयोगः करणीयः इति। रायपुरस्य अखिल भारतीय आयुर्विज्ञान-संस्थानस्य- एम्स् इत्येतस्य रायपुरस्य दीक्षान्त समारोह सम्बोधयन्ती राष्ट्रपतिः उक्तवती यत् गतदशसु वर्षेषु देशवासिनां कृते सार्वत्रिक स्वास्थ्य-व्याप्तिं प्रदातुं बहवः उपायाः कृताः सन्ति। छत्तीसगढस्य राज्यपालः रामेन डेका इत्ययं मुख्यमन्त्री विष्णुदेव साई इत्येषः च अस्मिन् अवसरे उपस्थितौ आस्ताम् । इतः पूर्व राष्ट्रपतिः छत्तीसगढ़स्य द्विदिवसीययात्रार्थ रायपुरं प्राप्तवती।

झारखण्ड-विधानसभा-निर्वाचनस्य प्रथम-चरणाय नामाङ्कनप्रक्रिया सम्पन्ना
झारखण्ड-विधानसभा-निर्वाचनस्य प्रथम-चरणाय नामाङ्कनप्रक्रिया सम्पन्ना। एतस्मिन् प्रथमे चरणे राज्यस्य त्रिचत्वारिंशत्-नैर्वाचनिक-क्षेत्रेभ्यः नवम्बरमासस्य त्रयोदशदिनाङ्‌के मतदानं भविष्यति। पूर्व मुख्यमन्त्री चम्पईसोरेनः सरायकेलातः आजसू दल- प्रमुखः च सुदेश कुमार महतो इत्यसौ सिल्लीतः स्वनामाङ्‌कनपत्रं पूरितवन्तौ। पूर्वमन्त्री राधाकृष्णकिशोरः छतरपुर विधानसभा क्षेत्रात् स्वीयनामाङ्कन पत्रं पूरितवान्। नामाङ्कनपत्राणाम् अनुसन्धेयकार्यम् अस्यमासस्य अष्टाविंशति दिनाङ्‌के अथ च नामाङ्कन प्रत्यावर्तनं त्रिंश‌दिनाङ्क यावत् प्रत्याशिनः कर्तुं शक्नुवन्ति । तत्रैव आदर्शाचारसंहितायाः उल्लङ्घनाय साम्प्रतं चतुर्दश प्राथमिक्यः समङ्किताः ।

रेलमन्त्रालयेन सप्तसहस्रं यावत् विशिष्ट रेलयानानि प्रचाल्यन्ते
आगामिनं दीपावली पर्व छठपूजोत्सवं च अभिलक्ष्य यात्रिसम्मर्द दूरीकर्तुं रेलमन्त्रालयेन सप्तसहस्रं यावत् विशिष्ट रेलयानानि प्रचाल्यन्ते। रेलमन्त्री अश्विनीवैष्णवः नवदिल्ल्यां अवदत् यत् एतैः विशेषरेलयानैः प्रतिदिनं प्रायः द्विलक्षं यावत् यात्रिणः यात्रां कर्तुं शक्नुवन्ति। सः अवदत् यत् अस्मिन् वर्षे विशेषरेलयानानां संख्या सप्तसहस्त्राणि यावत् वर्धितानि या हि गतवर्षे सार्धचतुः सहस्रं यावत् एव आसीत्।

रविवासरे देशवासिभिः साकं विचार-विनिमयं करिष्यति प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्री नरेन्द्रमोदी आगामिनि रविवासरे स्वीये “मन की बात” इत्यस्मिन् कार्यक्रमे देशवासिभिः साकं विचार-विनिमयं करिष्यति। “मन की बात” इति मासिक-कार्यक्रमस्य इदं पञ्चशाधिक एकशतं संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणम् आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनिभिः प्रसारयिष्यते। अयं कार्यक्रमः आकाशवाणी-दूरदर्शनम्- प्रधानमन्त्री-कार्यालय-सूचनाप्रसारण-मन्त्रालय-इत्येतेषां यूट्यूब-वाहिनीष्वपि द्रष्टुं शक्यते इति । प्रधानमन्त्रिणः सम्बोधनानन्तरम् अनुक्षण अयं कार्यक्रमः क्षेत्रीय भाषास्वपि श्रोतुं शक्यते। क्षेत्रीय- भाषासु अस्य पुनः प्रसारणं रात्रौ भविता।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Himachal News : प्रदूषणनियन्त्रणमण्डलं जनान् दीपावलीदिने केवलं हरितास्फोटकानां प्रयोगं कर्तुं परामर्शमददत्
Next Article 51st AIOC UDUPI : भारतीयभाषाणाम् अनुप्रयोगा: अवसराश्च इति विषये सम्पूर्णसत्रम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?