विश्व-हिन्दी-दिवस: – कार्यालयीय भाषायां हिन्दीभाषाया: प्रयोगाय मण्डीजनपदस्य चतुर्भ्य: विभागेभ्य: राजाभाषासम्मानम्-२०२४
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
भाषा कला एवं संस्कृतिविभाग: हिमाचलप्रदेश: जिला मण्डी द्वारा हिन्दीदिवसस्य उपलक्ष्ये सुन्दरनगरस्य देहरी वरिष्ठनागरिके वृद्धाश्रमे इत्यत्र हिमसाहित्यपरिषद: संयुक्तोपक्रमे साहित्यकस्य कविसम्मेलनस्य च आयोजनं कृतम्। कार्यक्रमे मुख्यातिथिरूपेण मण्डीजनपदस्य उपायुक्त: अपूर्वदेवगन: उपस्थित: आसीत्। भाषा एवं संस्कृतिविभागेन कार्यालयीयभाषासु हिन्दीभाषायां उपयोगकर्तृभ्य: चतुर्भ्य: विभागेभ्य: उत्कृष्टहिन्दीकरणस्य अन्तर्गतं जिला कोषागार: मण्डी इत्यस्मै उत्कृष्टहिन्दीकरणविभागस्य, सहयाकलोकसम्पर्काधिकारिणे विनोदवर्मणे उत्कृष्टहिन्दीकरणाधिकारी इत्यस्य, पंचायतीराजविभागस्य अधीक्षिका बबीता गुलेरियायै उत्कृष्टहिन्दीकरणकर्मचारी इत्यस्य अपि च प्रारम्भिकशिक्षाविभागस्य अन्तर्गतं सेवारताय राजकीय-उच्चपाठशाला-बिजनढलवानस्य संस्कृतशिक्षकाय अपि उत्कृष्ट-कार्यालयीय-हिन्दीभाषाकरणस्य “राजभाषा हिन्दी सम्मानम् – २०२४” इति प्रदत्तानि। उपायुक्तेन प्रशस्तिपत्रप्रदानेन , स्मृतिचिह्नेन, शिरस्त्राणेन, उत्तरीयप्रदानेन च एतेषां सम्मानं विहितम्। अस्मिन्नवसरे उपायुक्त: अपूर्व देवगन: सम्बोधयन् अवदत् यत् कार्यालयेषु हिन्दीभाषाया: अधिकाधिकप्रयोगाय अधिकारीणां कर्मचारीणां च प्रोत्साहनाय भाषा कला एवं संस्कृतिविभाग: “राजभाषा हिन्दी सम्मानम्” प्रतिवर्षं ददाति अनेन पुरस्कारप्राप्तकर्तृषु कार्यं कर्तुं उत्साह: उद्भवति तथा च अन्यान् अपि राजभाषायां कार्यं कर्तुं प्रेरणास्पदं भवति। भारते एव न अपितु विदेशेषु अपि हिन्दीभाषाया: व्यापकं स्वरूपं प्रचार-प्रसारश्च वर्तते। अस्माद् एव कारणाद् विश्वस्य सर्वाधिकासु व्यवहारकर्तृभाषासु हिन्दीभाषापि तृतीये स्थाने वर्तते।
नीरजशास्त्रिण: पुस्तकस्य विमोचनम्
कार्यक्रमे उपायुक्तेन नीरजशास्त्रिण: पुस्तकं “विद्यालयस्य बालकवय:” ( विद्यालय के बालकवि) इत्यस्य विमोचनमपि कृतम्। उपायुक्तेन एतदर्थं नीरजशास्त्रिणे शुभाशंसा: प्रदत्ता: तथा च भविष्ये अपि सतत् सृजनकर्तुं प्रेरितम्। अस्मिन् पुस्तके विद्यालयस्य बालानां केचन शिक्षकाणां च रचना: कथा: कविता: च समाहिता: सन्ति।
अस्मिन्नवसरे हिमसाहित्यपरिषदा अपि हिन्दीसाहित्यविकासाय द्वयो: साहित्यकारयो: प्रशस्तिपत्रेण, उत्तरीयप्रदानेन स्मृतिचिह्नेन च सम्मानं कृतं तथा च एकस्ये नवोदितकवयित्र्यै प्रोत्साहनसम्मानं प्रदत्तम्।
जिलाभाषाधिकारिणी मण्डी प्रोमिला गुलेरिया मुख्यातिथे: स्वागतम् अकरोत्। अस्मिन्नवसरे उपमण्डलाधिकारी सुन्दरनगरम् गिरीशसमर:, हिमसाहित्यपरिषद: अध्यक्ष: पीसीकौण्डल:, एवं क्षेत्रस्य कवय: साहित्यकारा: च उपस्थिता: अभवन्। द्वितीये सत्रे कविसम्मेलनस्य आयोजनं कृतम्। यस्मिन् विनोद: वर्मा, मुरारी शर्मा, सुरेन्द्र मिश्र:, जमना, लतेश:, प्रियम्बदा, कृष्णा ठाकुर, हीरासिंहकौशल: आदय: कवय: च कवितापाठम् अकुर्वन्।