By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HPCM : ऊनायां सौरशक्त्या ४७ मेगावाट् विद्युतोत्पादनं भविष्यति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HPCM : ऊनायां सौरशक्त्या ४७ मेगावाट् विद्युतोत्पादनं भविष्यति
हिमाचलवार्ता

HPCM : ऊनायां सौरशक्त्या ४७ मेगावाट् विद्युतोत्पादनं भविष्यति

डॉ मनोज शैल
Last updated: 2024/07/12 at 10:12 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

HPCM : ऊनायां सौरशक्त्या ४७ मेगावाट् विद्युतोत्पादनं भविष्यति

हिमसंस्कृतवार्ता: – ऊना। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् आगामिसमये ऊनामण्डले सौर ऊर्जाद्वारा ४७ मेगावाट् विद्युतोत्पादनं भविष्यति। एतत् उत्पादनं राज्यस्य सर्वेभ्यः मण्डलेभ्यः अधिकं भविष्यति। मुख्यमन्त्री ३१ कोटिरूप्यकाणां व्ययेन ऊनामण्डस्य गगरेटम् इत्यत्र निर्मितस्य ५ मेगावाट् क्षमतायुक्तस्य भञ्जालसौरविद्युत्परियोजनायाः आधारशिलाम् अस्थापयत्। सुक्खुः अवदत् यत्, ऊनामण्डलस्य पेखुबेलानगरे २२० कोटिरूप्यकाणां व्ययेन निर्मितं ३२ मेगावाट् क्षमतायुक्तं सौरविद्युत्परियोजना अष्टमासानां अभिलेखसमये सर्वकारेण जनसामान्यं प्रति समर्पिता। तस्मिन् एव काले कुटलैहड़े ६७.८२ कोटिरूप्यकाणां १० मेगावाट् परियोजनायाः कार्यम् आरब्धम् अस्ति ।

काङ्ग्रेससर्वकारेण प्रथमे बजटे २०२६ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं हिमाचलस्य हरित ऊर्जाराज्यरूपेण विकासस्य लक्ष्यं निर्धारितम् अस्ति । अस्मिन् सौरऊर्जापरियोजनानां महत्त्वपूर्णा भूमिका भविष्यति। राज्यं स्वनिर्भरं कर्तुं सर्वकारेण विद्युत्निगमाय २०० मेगावाट् सौर ऊर्जायाः सदुपयोगस्य लक्ष्यं दत्तम् अस्ति ।

मुख्यमन्त्री ५.१७ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य अत्याधुनिकमत्स्यपालनप्रशिक्षणकेन्द्रस्य देवली इत्यस्य आधारशिला अपि स्थापितवान्। उक्तं यत् एतेन राज्यस्य मत्स्यजीविनां लाभः भविष्यति। अस्मिन्नवसरे गगरेटस्य विधायक: राकेशकालिया, विधायक: संजयरतन:, सुदर्शन: बबलू आदय उपस्थिता: आसन्।

अष्टमासेषु परियोजना सज्जा भविष्यति

भंजाल सौरऊर्जा परियोजना 9 हेक्टेयर भूमौ हिमाचलप्रदेशविद्युत्निगमलिमिटेड द्वारा निर्मीयते। अष्टमासेषु तस्य सज्जीकरणस्य लक्ष्यं निर्धारितम् अस्ति। अस्याः परियोजनायाः प्रतिवर्षं १०.५४ मिलियन यूनिट् विद्युत् उत्पादनं भविष्यति । एतेन सर्वकाराय वार्षिकं ३.८१५ कोटिरूप्यकाणां राजस्वं प्राप्स्यते। परियोजनायां १३,००० सौरमॉड्यूलाः स्थापिताः भविष्यन्ति । एतेन प्रतिवर्षं ३९६ टनपर्यन्तं कार्बन-उत्सर्जनं न्यूनीकरिष्यते

You Might Also Like

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP NEWS, HPCM, Una News, ऊना समाचार, दिव्य हिमाचल समाचार, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचलस्य समाजसेविना डॉ. महिन्द्रशर्मणा वैष्णोदेवीभोजनालयाय एककोटिरुप्यकाणि प्रदत्तानि
Next Article नवदेहल्यां केन्द्रीयमन्त्रिणा जगतप्रकाशनड्डावर्येण सह अमिलत् विधायकः अनिलशर्मा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?