By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Weather : धर्मशालायां ऋतो: सर्वाधिकवर्षा, हिमाचले भूस्खलनेन १५० मार्गाः अवरुद्धा:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Weather : धर्मशालायां ऋतो: सर्वाधिकवर्षा, हिमाचले भूस्खलनेन १५० मार्गाः अवरुद्धा:
हिमाचलवार्ता

HP Weather : धर्मशालायां ऋतो: सर्वाधिकवर्षा, हिमाचले भूस्खलनेन १५० मार्गाः अवरुद्धा:

डॉ मनोज शैल
Last updated: 2024/07/07 at 11:23 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Weather : धर्मशालायां ऋतो: सर्वाधिकवर्षा, हिमाचले भूस्खलनेन १५० मार्गाः अवरुद्धा:

हिमसंस्कृतवार्ता: – शिमला ।

 हिमाचलप्रदेशे पुनः मानसूनवृष्टिः विनाशं करोति, जनाः च आश्रयस्य लक्षणं न पश्यन्ति। वर्षा-भूस्खलन-कारणात् विभिन्नेषु भागेषु यातायातस्य प्रभावः अभवत्, मार्गेषु यात्रा अपि भयङ्करा अभवत्। भूस्खलनस्य कारणेन राज्यस्य सिरमौरमण्डले राष्ट्रियराजमार्गसहिताः १५० मार्गाः निरुद्धा: अभवन्। अविरामवृष्ट्या ३३४ विद्युत् परावर्तका: ५५ जलयोजनाश्च निरुद्धाः इति कारणेन विद्युत् पेयजलापूर्ति: अपि प्रभाविता अस्ति। काङ्गड़ामण्डलस्य मुख्यालये धर्मशालायां २१४ मिलीमीटर वृष्टिः अभवत्, यत् अस्मिन् ऋतौ अत्यधिकवृष्टेः अभिलेखः अस्ति। एतदतिरिक्तं पालमपुरे २१२ मि.मी., जोगिन्दरनगरे १६९, काङ्गड़ायां १५७, बैजनाथे १४२, जोते ९५, नगरोटासूरियाया़ ९०, सुजनापुरे ७२, धौलाकुआंयां ७०, घमरूरे ६८, नादौने ६३ मि. मी, बरठीं इत्यत्र च ५८ मिलीमीटर वृष्टि: अभवत्।

ऋतुविज्ञानविभागेन आगामिषड्दिनानां कृते वर्षा, वज्रपातः, विद्युत्प्रवाहः च भवितुं ‘पीत-सचेतना’ निर्गता अस्ति। परन्तु अस्मिन् काले अतीव प्रचण्डवृष्टेः सम्भावना नास्ति। ऋतुविभागेन जनान् विशेषतः पर्यटकान् प्रतिकूलं वातावरणं दृष्ट्वा सजगः भवितुम् आह। पर्यटकाः सामान्यजनाः च भूस्खलनप्रवणक्षेत्राणां, नद्यः, धाराणां च समीपं न गच्छन्तु इति निर्देशः दत्तः अस्ति। राज्यस्य आपत्कालीनसञ्चालनकेन्द्रस्य समाचारानुसारं शनिवासरस्य प्रातः पर्यन्तं राज्ये एकः राष्ट्रियराजमार्गः १५० मार्गाः च अवरुद्धा: एव आसन्। एनएच-७०७ मार्गे सिरमौरे वाहनानां गमनम् स्थगितम् अस्ति। एनएच प्राधिकरणेन शीघ्रमेव राजमार्गस्य पुनर्स्थापनस्य विश्वास: कृतः अस्ति। मण्डीमण्डले अधिकतमं १११ मार्गाः निरुद्धा: सन्ति। सिरमौरे १३ मार्गाः, शिमलानगरे नव, काङ्गड़ा-मण्डले एकः कुल्लु-चम्बा-जनपदयोः च अष्ट-८, मार्ग:  अवरुद्धाः सन्ति। भूस्खलनेन सर्वाधिकं प्रभावितस्य मण्डीमण्डलस्य विषये वदन् धर्मपुरे २५, थलौटे २२, पद्धर-सिराजयोः १४, जोगिन्दरनगरयोः १०, सरकाघाटे ९, करसोगे पञ्च, गोहरे-मण्ड्यां च त्रीणि, नेरचौके एकः मार्गः च बाधितः। समाचारानुसारं व्यापकवृष्ट्या ३३४ विद्युत्परावर्तकाणां क्षतिकारणात् विद्युत्विच्छेदः भवति। केवलं मण्डीमण्डले २५९ विद्युत्परावर्तका: निरुद्धा: सन्ति। चम्बामण्डले ५८, ऊनायां १९ विद्युत्परावर्तकाणां विफलतायाः कारणेन जनाः विद्युत् अभावस्य सम्मुखीकरणं कुर्वन्ति। एतदतिरिक्तं शिमलानगरे ३३ पेयजलयोजना: बिलासपुरे २२ योजनाः अपि प्रचण्डवृष्ट्या स्थगिता: सन्ति। शिमलामण्डलस्य ठियोगे १८ पेयजलयोजनाः, कुमारसेने १३ च योजना: पङ्कस्य परिमाणं वर्धमानस्य कारणेन निरुद्धा: सन्ति।

 

You Might Also Like

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal Monsoon, Himachal news, Himachal weather, Himsanskritnews, HP NEWS, HP weather, दिव्य हिमाचल समाचार, मौसम विज्ञान केन्द्र, शिमला समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल मौसम, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article National & International News  ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला रेनर: उपप्रधानमन्त्री नियुक्ता
Next Article HP Bye Election : मुख्यमन्त्री देहरायां प्रबलप्रचारं कृतवान्, अवदत्- कोऽपि पोंगविस्थापितः व्यक्तिः भूमिहीनः न स्थास्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?