By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : प्रधानमंत्री श्री नरेन्द्र मोदी इटली देशे जी-7 इति शिखर सम्मेलनात् पृथक् विभिन्नानां देशानाम् नेतृभिः समं समाचरिष्यति द्वि पक्षीय उपवेशनानि।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National News : प्रधानमंत्री श्री नरेन्द्र मोदी इटली देशे जी-7 इति शिखर सम्मेलनात् पृथक् विभिन्नानां देशानाम् नेतृभिः समं समाचरिष्यति द्वि पक्षीय उपवेशनानि।
अन्ताराष्ट्रीयवार्ताःप्रादेशिकवार्ताराष्ट्रीयवार्ताः

National News : प्रधानमंत्री श्री नरेन्द्र मोदी इटली देशे जी-7 इति शिखर सम्मेलनात् पृथक् विभिन्नानां देशानाम् नेतृभिः समं समाचरिष्यति द्वि पक्षीय उपवेशनानि।

डॉ मनोज शैल
Last updated: 2024/06/14 at 10:32 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National News : प्रधानमंत्री श्री नरेन्द्र मोदी इटली देशे जी-7 इति शिखर सम्मेलनात् पृथक् विभिन्नानां देशानाम् नेतृभिः समं समाचरिष्यति द्वि पक्षीय उपवेशनानि।

जी-7 इति शिखरे सम्मेलने इटली देशं प्राप्तस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः भव्यं स्वागतम्

हिमसंस्कृतवार्ताः। जी-7 इति शिखरे सम्मेलने सहभागितां समाचरितुं इटली देशं प्राप्तस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः भव्यं स्वागतं समाचरितम्। तावत् प्रधानमन्त्री तत्र ग्लोबलसाउथ इति विकासजलवायुपरिवर्तनसन्निवेशोपक्रमेषु स्वीयं मन्तव्यं प्रस्तोष्यति। अवधेयं यत् जी-7 इति देशैः समं भारतस्य सुदृहाः सम्बन्धाः सन्ति। गतपंचवर्षतः भारतं प्रतिवर्षम् एतस्मिन् शिखरसम्मेलने सहभागित्वं भजते। भवद्भिः ज्ञेयं यत् जी-7 इति जगतः सप्त सुदृढ़ विकसितदेशानां समूहः अस्ति यस्य सदस्येषु कनाडा, फ्रांस, जर्मनी, जापान, ब्रिटेन, संयुक्त राज्य अमरीका सप्त देशाः सम्मिलिताः सन्ति। तावत् प्रधानमन्त्री मोदी तत्र इटली देशे जी-7 इति शिखर सम्मेलनात् पृथक् अनेकेषां देशानां नेतृभिः समं द्विपक्षीय उपवेशनानि अपि समाचरिष्यति। जी-7 इति शिखरसम्मेलने सहभागितां कर्तुं प्राप्तः प्रधानमन्त्री नरेन्द्रमोदी समाजिके संचारपटले अलिखत् यत् जी-7 इति शिखर सम्मेलने सहभागितार्थं अहम् इटली देशं प्राप्तवान्, वैश्विक नेतृभिः समं चर्चायां सम्मिलितुं समुत्सुकः अस्मि। अस्माकं लक्ष्यं सम्मिल्य वैश्विक समाह्वानानां समाधानम् अथ उज्ज्वल भविष्यार्थ अन्ताराष्ट्रिय सहयोग समेधम् अस्ति। तावत् इटली देशे जी-7 शिखर सम्मेलनस्य गत दिने समारम्भः संजातः। इटली देशे आयोज्यमानस्य एतस्य शिखरसम्मेलनस्य प्रथमे दिने राउण्डटेबल इति समूह विशेष सम्मेलनं समायोजितं गतम्। अत्रान्तरे इटलीदेशस्य प्रधानमन्त्री इटली देशस्य प्रधानमन्त्री पदासीना ज्योर्जिया मेलोनी इत्येषा अवोचत् यत् एतस्य शिखर सम्मेलनस्योद्देश्यं ऐक्य स्थापनं सम्मिल्य कार्याचरणमस्ति। अथ जी-7 इति सदस्य देशाः सम्मिल्य एव अग्रे सरिष्यन्ति उत्कर्षतां च प्राप्स्यन्ति।

सिक्किम-राज्ये अतिवृष्टयाः कारणात् भूस्खलनं अभवत्

हिमसंस्कृतवार्ताः। सिक्किम-राज्ये अतिवृष्टयाः कारणात् भूस्खलनं अभवत्। भूस्खलनस्य कारणेन मंगल- जनपदः विनष्टः यत्र न्यनातिन्यूनं घट् जनाः मृताः द्विसहस्त्रं पर्यटकाः च अवरुद्धाः जाताः। तीस्ता नद्याः जलस्तरस्य वर्धनेन संकलंग-क्षेत्रे पुरातनः लटकनसेतुः नवनिर्मितः वेली-सेतुः च जले पतितौ। येन उत्तर-सिक्किम-राजस्य जोन्धु-प्रदेशेन सह महत्वूर्णः सम्पर्कः खण्डितः। मंगल- जनपदे अधिकारिणा हेम-कुमार-छेत्री इत्यनेन वृष्टया कारणात् जातस्य क्षतेः आकलनं कृतम्।

पश्चिम बंगाल-असम-मेघालय-सिक्किम पूर्वोत्तर भारतस्य अन्येषु क्षेत्रेषु जूनमासस्य एकोनविंशे दिनाङके अतिवृष्टेः सम्भावना-ऋतुविज्ञानकेन्द्रम्

हिमसंस्कृतवार्ताः। ऋतुविज्ञानविभागेन उप-हिमालयीयः पश्चिमबंगः-असम-मेघालय-सिक्किम पूर्वोत्तर भारतस्य अन्येषु क्षेत्रेषु जूनमासस्य एकोनविंशे दिनाङके अतिवृष्टेः सम्भावनायाः अनुमानः कृतः। भारतीय ऋतुविज्ञानविभागानुसारम् देशस्य उत्तरभागेषु उष्णता निरन्तरं भविष्यति।  झारखण्ड-बिहार उत्तर प्रदेश समेत्य उत्तर भारतस्य कतिपय भागेषु रक्तसंचेतना  प्रकटिता। ऋतुविज्ञानविभागस्य वैज्ञानिका डॉक्टर-सोमा-सेनः उक्तवती यत् झारखंड-बिहार उत्तरप्रदेशे रक्तसंचेतनाकारणेन   उष्मावायोः प्रकोपः निरंतरं भविष्यति।

अमरीका-यूक्रेनदेशाभ्यां ह्यः इटली देशे दीर्घकालिक सुरक्षा-सन्धिः विहिता

हिमसंस्कृतवार्ताः। अमरीका-यूक्रेनदेशाभ्यां ह्यः इटली देशे दीर्घकालिक सुरक्षा-सन्धिः विहिता। जी-7 शिखर सम्मेलनं विहाय देशस्य राष्ट्रपति जोबाइडेन, यूक्रेनदेशस्य राष्ट्रपतिः बोल्दोमिर जेलेंस्की च अस्मिन् सन्धौ हस्ताक्षरं कृतवन्तौ। अनेन द्वयोः देशयोः मध्ये सैन्य-उपकरण, प्रशिक्षण, युद्धाभ्यास सहैव सर्वेऽपि संभावित स्तरेषु सहयोगः वर्धयिष्यते।

वार्षिकी हजयात्रा गतदिनात् प्रारब्धा

हिमसंस्कृतवार्ताः। पंचदिवसीया वार्षिकी हज यात्रा अद्यारभ्य प्रारब्धा। प्रयाः विंशतिः लक्ष पर्यटकाः सऊदीअरबस्य मीनायां एकत्रिताः भवन्ति।  भारतस्य पंचसप्तसहस्त्राधिक एकलक्षाधिक पर्यटकाः भागं गृह्णन्ति। एतेषु विंशतिः अधिक चत्वारिंशत् सहस्त्रोत्तर एकलक्ष पर्यटकाः हज कमेटी ऑफ इण्डिया इत्यस्य माध्यमेन तत्र प्राप्तवन्तः। तीर्थयात्रिणः यात्रायाः आरम्भः मक्कातः कृत्वा मीनायाम् एकत्रिताः भवन्ति। जनानां सुविधायै (हजसुविधा) इति दूरभाष यन्त्रः प्रदत्तः।

कुवैत देशे दुरापन्नायां अग्निकाण्ड दुर्घटनायां मृत्युंगतानां पंचचत्वारिंशत् भारतीयानां पार्थिवं शरीराणि स्वदेशे प्राप्तानि

हिमसंस्कृतवार्ताः। कुवैत देशे दुरापन्नायां अग्निकाण्ड दुर्घटनायां मृत्युंगतानां पंचचत्वारिंशत् भारतीयानां पार्थिवं शरीरं आदाय वायुसेनायाः एकं विशिष्टं विमानं कोचीन अंतर्राष्ट्रीयविमानस्थानकं प्राप्तवत्। पार्थिवशरीराणि कार्गो स्वागतक्षेत्रे स्थापितानि येन जनाः तेभ्यः श्रद्धांजलिं दातुं शक्येयुः। विदेशराज्यमन्त्री कीर्तिवर्धनसिंहः, पेट्रोलियम्प्राकृतिकगैस राज्य मन्त्री सुरेशगोपी, केरलस्य मुख्यमन्त्री पिनाराई विजयन अथ तस्य सहयोगी राज्ये विधानसभायां विपक्षीय नेता वी.डी. सतीसन एवञ्च भाजपेति दलस्य प्रदेश अध्यक्षः के. सुरेन्द्रनः च श्रद्धांजलिं अयच्छत्।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, PM Modi, PM Modi Italy Tour, pmo, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, नरेन्द्र मोदी, प्रधानमंत्री, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HP Fisheries Department : १६ जूनतः १५ अगस्तपर्यन्तं हिमाचले मत्स्याखेटे पूर्णप्रतिबन्धः भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?