By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Lok Sabha Session : २४ जूनतःआरभ्यते १८ तमायाः लोकसभायाः प्रथमसत्रम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Lok Sabha Session : २४ जूनतःआरभ्यते १८ तमायाः लोकसभायाः प्रथमसत्रम्
राष्ट्रीयवार्ताः

Lok Sabha Session : २४ जूनतःआरभ्यते १८ तमायाः लोकसभायाः प्रथमसत्रम्

डॉ मनोज शैल
Last updated: 2024/06/12 at 8:47 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

Lok Sabha Session : २४ जूनतःआरभ्यते १८ तमायाः लोकसभायाः प्रथमसत्रम्

हिमसंस्कृतवार्ता: ।

१८ तमायाः लोकसभायाः प्रथमसत्रम् अस्य मासस्य २४ दिनाङ्कात् आरभ्यते। अस्मिन् सत्रे नवनिर्वाचितसदस्यानां शपथग्रहणं, अध्यक्षस्य निर्वाचनं, राष्ट्रपतिसम्बोधनं, चर्चा च भविष्यति। यत्र राज्यसभायाः २६४तमं अधिवेशनमपि अस्मिन् मासे २७ दिनाङ्के आरभ्यते। आगामिमासस्य तृतीये दिने आगामि संसदस्य सत्रस्य समाप्तिः भविष्यति।

केन्द्रीयसंसदीयकार्यमन्त्री किरेन रिजिजुः उक्तवान् यत् देशस्य जनाः निर्णयं कृतवन्तः। अधुना देशस्य सेवायै कार्यं कर्तुं अस्माकं कर्तव्यम् अस्ति। सः उक्तवान् यत् संसदः १४० कोटिभारतीयानाम् आकांक्षाणां पूर्तये चर्चां कर्तुम् आदर्शमञ्चः अस्ति।

Andhra News : तेलुगु-देशम् पार्टीति दलस्य प्रमुखः नाराचन्द्रबाबू नायडुः आंध्र प्रदेशस्य मुख्यमंत्रित्वेन शपथ ग्रहणं कृतवान्

हिमसंस्कृतवार्ता: ।

तेलुगु देशम पार्टीति दलस्य प्रमुखः नाराचन्द्रबाबू नायडुः अद्य कृष्णा मण्डलस्य केसरपल्ली इत्यत्र आंध्र प्रदेशस्य मुख्यमंत्रित्वेन शपथ ग्रहणं कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाहः, एनडीए- दलस्य नेतारः च शपथग्रहणसमारोहे उपस्थिताः आसन्। तेलुगुदेशमदलस्य प्रमुखः नाराचन्द्रबाबूनायडुः कृष्णमण्डलस्य केसरपल्ली-आइटीपार्क इत्यत्र अद्य प्रातः सप्तविंशतिः निमेषाधिक एकादशवादने राज्यस्य राज्यपालः एस अब्दुलनजीरः आन्ध्रप्रदेशस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कारितवान्। तेनैव सह जनसेनादलस्य त्रयः, भारतीयजनतादलस्य एकं च समेत्य चतुर्विशति नवनिर्वाचितसदस्याः मन्त्रिपरिषदः शपथग्रहणं कृतवन्तः। प्रधानमन्त्री नरेन्द्रमोदी मुख्यातिथिरूपेण कार्यक्रमे उपस्थितः आसीत्। कार्यक्रमे उपस्थिताः अन्ये गणमान्यजनाः केन्द्रीयगृहमन्त्री अमितशाहः, केन्द्रीयस्वास्थ्यमन्त्री तथा भाजपादलस्य अध्यक्षः जेपी नड्डा, केन्द्रीयमार्गपरिवहनमन्त्री तथा च वरिष्ठभाजपानेता नितिनगडकरी, केन्द्रीयकृष्णाङार उत्खननमन्त्री जी किशनरेड्डी, केन्द्रीयमन्त्रिणः एनडीएसहयोगिनं च समेत्य चिराग पासवान, रामदास अथवाले, अनुप्रिया पटेल, महाराष्ट्र मुख्यमंत्री एकनाथ शिंदे, भारतस्य पूर्व उपराष्ट्रपति एम वेंकैया नायडु, भारतस्य पूर्व मुख्यन्यायाधीशः एन.वी. रमणः च उपिस्थतः आसीत्।

PM Modi Italy Tour :  प्रधानमंत्री नरेंद्रमोदी जी-सप्त शिखरसम्मेलने सम्मिलितुं गुरुवासरे इटलीं प्रयास्यति

हिमसंस्कृतवार्ता: ।

प्रधानमंत्री नरेंद्रमोदी जी-सप्त शिखरसम्मेलने सम्मिलितुं श्वः इटलीं प्रयास्यति । विदेश-सचिवः विनय-क्वात्रा नवदिल्ल्यां प्रावोचत् यत् शुक्रवासरे जायमाने सम्मेलने भारतं एकेन विकासोन्मुख देशस्य रूपेण आमंत्रितम् अस्ति । सः प्रोक्तवान यत् इयं यात्रा भारताय वैश्विक दक्षिणक्षेत्राय च महत्वपूर्णविषयेषु वैश्विक नेतृभिः सह सुदृढ सम्बन्ध-निर्माणस्य अवसर प्रदास्यति । शिखर सम्मेलने भारतस्य इयं एकदशतमः श्री-मोदिनः च निरन्तरं पञ्चमः भागग्रहणावसरः भविष्यति। प्रधानमंत्री अस्मिन् सत्रे सम्मिलितः भविष्यति । सम्मेलनम् अतिरिच्य, श्रीमोदिनः जी-सप्त-देशानां नेतृभिः सह द्विपक्षीयोपवेशनं अपि सम्भाव्यते । श्रीमोदी इटली-देशस्य प्रधानमंत्रिणा जियोर्जिया-मेलोनी इत्यनया सह उपवेशनं करिष्यति । विदेश सचिवः प्रावोचत् यत् भारतं स्विट्जरलैंड-देशे आयोध्यमाणे यूक्रेन-शांति-शिखर सम्मेलन उचित-स्तरे सम्मिलितं भविष्यति। अस्मिन् मासे स्विट्जरलैंडे आयोक्ष्यमाणे सम्मेलने न्यूनातिन्यूनः नवति देशाः सम्मिलिताः भविष्यन्ति ।

प्रधानमन्त्रीनरेन्द्रमोदी विदेश मंत्री सुब्रह्मण्यम-जयशंकरः च कुवैते दुरापन्ने भीषणे आग्निकाण्डे महद्-दुःखं व्यक्तमकुरुताम्

हिमसंस्कृतवार्ता: ।

प्रधानमन्त्रीनरेन्द्रमोदी विदेश मंत्री सुब्रह्मण्यम-जयशंकरः च कुवैते दुरापन्ने भीषणे आग्निकाण्डे महद्-दुःखं व्यक्तमकुरुताम्। अस्यां दुर्घटनायां चत्वारिशदधिकजनाः कालग्रासभूताः अभवन् सहैव पञ्चशदधिकजनाः व्रणिताः सन्ति। श्रीजयशंकरः आश्वासनं प्रदत्तवान् यत् कुवैते भारतीय दूतावासः प्रभावितेभ्यः सर्वेभ्यः जनेभ्यः साहाय्यं प्रदास्यति ।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, national News Headlines, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय समाचार, लोकसभा सत्र, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HP News : विधानसभा-उपनिर्वाचने निर्वाचितानां षट्विधायकानां शपथग्रहणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?