By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: शिक्षा विभाग – विद्यालयीय-पाठ्यक्रमे समाविष्टं भविष्यति आपदाप्रबन्धनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > शिक्षा विभाग – विद्यालयीय-पाठ्यक्रमे समाविष्टं भविष्यति आपदाप्रबन्धनम्
हिमाचलवार्ताप्रादेशिकवार्ता

शिक्षा विभाग – विद्यालयीय-पाठ्यक्रमे समाविष्टं भविष्यति आपदाप्रबन्धनम्

डॉ मनोज शैल
Last updated: 2024/01/28 at 2:17 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

शिक्षा विभाग – विद्यालयीय-पाठ्यक्रमे समाविष्टं भविष्यति आपदाप्रबन्धनम्

 सर्वकारेण निर्मिता समिति:

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। 

हिमाचलप्रदेशस्य विद्यालयेषु आपदाप्रबन्धनपाठ्यक्रमः समाविष्टः भविष्यति। राज्यसर्वकारेण पाठ्यक्रमस्य संशोधनार्थं समितिः निर्मिता। गतवर्षे मानसूनर्तौ राज्ये या प्राकृतिकविपदा अभवत् ततः परं सर्वकारेण महत् निर्णयः कृतः। विद्यालयेषु विविधकार्यक्रमानाम् आयोजनविषये अपि निर्देशाः निर्गताः सन्ति।

सर्वकारस्य अधिसूचनानुसारं समितिः तत्क्षणमेव विद्यालयेषु पाठनीयं पाठ्यक्रमं तस्य कार्यान्वयनार्थं सज्जीकर्तुं सभां करिष्यति, येन राज्ये आपदा- संकट- निवारणपरिहाराः वर्धिताः भविष्यन्ति। समितिं प्रति समर्थनं सचिवालयस्य राजस्वविभागस्य डीएमप्रकोष्ठद्वारा प्रदत्तं भविष्यति।

अधिसूचना निर्गतदिनात् षड्मासानां अन्तः समितिः अन्तिमप्रतिवेदनं प्रस्तौति। निदेशकसहविशेषसचिवः राजस्वं समिते: अध्यक्षः कृतः। तत्रैव विद्यालयीय- शिक्षाबोर्डसचिव:, उच्चतरशिक्षानिदेशक:, प्रारम्भिक शिक्षानिदेशक:, एससीईआरटी सोलनम् एवं समग्रशिक्षा अभियानस्य राज्यपरियोजनानिदेशक: च सदस्या: भविष्यन्ति। समितौ संयुक्तसचिवराजस्वं सदस्यसचिवः कृतः अस्ति।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: Education, Education Minister, शिक्षा मंत्री, शिक्षा विभाग हिमाचल, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article शिमला – नव भारतीयपुलिससेवाया: (IPS)  तथा हिमाचलपुलिससेवाया: (HPS) अधिकारिणां स्थानान्तरण- नियुक्यादेशा: निर्गता:
Next Article मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – विधायककोषः न निरुद्ध:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?