By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्
हिमाचलवार्ताधर्मसंस्कृतिःप्रादेशिकवार्ता

रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्

डॉ मनोज शैल
Last updated: 2024/01/23 at 9:48 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्

हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:।

अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये सोमवासरे देवभूमिहिमाचलप्रदेशे दीपावलीसदृशं वातावरणं जातम्। देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणं  एलईडी- स्क्रीन इति स्थापयित्वा प्रदर्शितम्। प्रत्येकं जनपदस्य मुख्यालये ५१०० तः ११,००० यावत् दीपाः प्रज्ज्वलिता:। राज्यस्य प्रत्येकः व्यक्तिः श्रीरामस्य भक्तिभावे मग्न: अभवत्। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये हिमाचलत: ५२ महात्मनाम् अतिरिक्तं भगवत: रघुनाथस्य मुख्ययष्टिधारक: महेश्वरसिंहः, लोकनिर्माणमंत्री विक्रमादित्यसिंहः, काङ्ग्रेसविधायकः सुधीरशर्मा, बॉलीवुड- अभिनेत्री कङ्गना रनौत इत्यादयः अनेके जनाः उपस्थिताः आसन्। 

शिमलानगरस्य रिजभूमौ, मॉलमार्गे, धर्मशालायां च बृहत्-कार्यक्रमानाम् आयोजनं कृतम्। मन्दिरेषु, धार्मिककार्यक्रमाः, विभिन्नेषु स्थानेषु शोभायात्राः च निर्गता:। राज्यस्य शक्तिपीठेषु, बज्रेश्वरीमंदिरं, चामुंडा, ज्वालाजी, नयनादेवी, चिंतपूर्णी इत्यत्र च विशेषायोजनम् अभवत्।

राजधानी शिमला- शिमलाजनपदस्य शताधिकेषु मन्दिरेषु राजधान्या: ६० मन्दिरेषु च प्राणप्रतिष्ठा समारोहः भक्तानां कृते सजीवप्रसारणेन प्रदर्शितः। मन्दिरेषु अखण्डरामायणपाठा:, हवनम्, सुन्दरकाण्डपाठा:, हनुमानचालीसापाठा: अभवन्। सायङ्काले मन्दिरेषु दीपमहोत्सवः आचरित:। सायं ७:०० वादने रिजप्राङ्गणे आतिशबाजी अभवत्। राजधान्या: बृहत्तमः कार्यक्रमः रामबाजारे स्थिते राममन्दिरे अभवत्। सोमवासरे प्रातः १०:०० वादने अखण्डरामायणपाठस्य पूर्णता अभवत्। अपराह्न सार्धद्वादशवादने मन्दिरे एलईडी-जवनिकायां अयोध्यायाः सजीवप्रसारणम् अभवत्। सायं ५:०० वादने मन्दिरे ५१०० मृत्तिकादीपाः प्रज्वलिताः।

काङ्गड़ा- कांगड़ामण्डले शक्तिपीठज्वालामुख्यां दीपमाला: अलङ्कृता:। माताबज्रेश्वरीमन्दिरे, वीरभद्रमन्दिरे, तारामन्दिरे, ओल्डकाङ्गड़ायां च एलईडी स्क्रीन स्थापिताः आसीत्। रावणस्य नगर्य्यां बैजनाथे अनेके कार्यक्रमाः अभवन्। धर्मशालाया: कचहरीस्थानके, पिंगलेश्वरमहादेवे सकोहे, राधा-कृष्ण मन्दिरे नरवानायां, कैंटमार्गे धर्मशालायां, भागसुनागे, दाड़यां सजीवप्रसारणस्य प्रदर्शनार्थं एलईडी स्थापिता आसीत्। पालमपुरस्य राधाकृष्णमन्दिरे भजन-कीर्तनं जातम्।

सोलनम्- सोलनमण्डले २.५ लक्षाधिकाः दीपाः प्रज्वलिताः। पुरातनबसस्थानके बालनिकुञ्जे च १६,००० दीपाः प्रज्वलिताः भविष्यन्ति। बद्दीनगरस्य दशहरा- क्रीडाङ्गणे ५१०० दीपैः सह भव्य-आतिशबाजी अपि कृता।

लघ्वीकाशी मण्डी- प्राणप्रतिष्ठासमारोहः मण्डीजनपदस्य ५५० तः अधिकेषु मन्दिरेषु धार्मिकस्थानेषु च एलईडीद्वारा सजीवप्रसारणं जातम्। षट् क्विन्टलदेसीघृतेन निर्मित: संयाव: चौहटाबाजारे वितरितम्। 

रघुनाथनगरी कुल्लू- कुल्लूजनपदे सजीवप्रसारणं कर्तु़ भिन्न-भिन्नेषु स्थलेषु चतर्शताधिका: एलईडी-जवनिका: स्थापिता: आसन्। अस्मिन् जनपदे १,७३,००० दीपाः प्रज्वलिताः। सोमवासरे प्रातः १०:०० वादनात् भगवत: रघुनाथस्य मन्दिरे सुन्दरकाण्डस्य पाठः अभवत्। 

हमीरपुरम्- हमीरपुरमण्डले अपि ५०० तः अधिकेषु मन्दिरेषु कार्यक्रमाः अभवन्। प्राणप्रतिष्ठासमारोहस्य सजीवप्रसारणं गांधीचौकसहितं जनपदे प्रायः विंशत्याधिकेषु स्थानेषु अभवत्। अम्बिकामातामन्दिरे कुठेड़ायां ११,००० दीपाः प्रज्वालिता:। सुजानपुरस्य ऐतिहासिकस्य चौगानभूमौ सहस्रदीपमालाप्रज्ज्वलनस्य कार्यक्रम: अभवत्। 

चम्बा- चम्बायां ५१०० घृतदीपाः प्रज्वलिताः। प्रातःकाले मन्दिरेषु प्रभातपरिक्रमा निर्गता:। मन्दिरेषु सुन्दरकाण्डपाठः आरब्धः आसीत्। विश्वहिन्दुपरिषदः प्रदेशाध्यक्ष: प्राणप्रतिष्ठाकार्यक्रमस्य हिमाचलसमन्वयकरूपेण च कार्यं कुर्वन् लेखराजराणा अवदत् यत् अयोध्यायां आयोज्ये कार्यक्रमाय हिमाचलतः ६९ जनाः आमन्त्रिताः, येषु ५२ सत्पुरुषा: अपि आमन्त्रिता: सन्ति।

१८१ वर्षाणाम् अनन्तरं श्रीरामस्य मूर्तिं हनुमानघाटमन्दिरात् दर्शनार्थं बहिः आनीता

१८१ वर्षाणामनन्तरं रामपुरस्य हनुमानघाटमन्दिरात् श्रीरामस्य विग्रह: सार्वजनिकदर्शनार्थं बहि: आनीतः। एतदतिरिक्तं व्यापारिणः २०० किलो मोदकवितरणं कृतवन्त:। 

द्विदिनानि निःशुल्कबससुविधा

कांगड़ा-जनपदस्य राजा का तालाब इत्यत्र केचन निजीबससञ्चालकाः जनानां कृते द्विदिनस्य निःशुल्कयात्रायाः व्यवस्थां कृतवन्तः। शिमलायाम् अपि केचन संचालकाः जनानां कृते एतां सुविधां प्रदातुं चर्चां कृतवन्तः।

You Might Also Like

मकरसंक्रान्तेः फलम् (जनवरी 2026)

लोहडी उत्तरभारते प्रसिद्धः उत्सवः

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, अयोध्या राम मन्दिर, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, रामलला, रामलला प्राणप्रतिष्ठा, हिमाचल प्रदेश
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love1
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article गर्भगृहे विराजितः रामलल्ला, स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्,
Next Article मुख्यमन्त्रिण: आधिकारिकनिवासः ओक- ओवरः रङ्गिणीप्रकाशैः अलङ्कृतः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?