हरियाणाकेन्द्रीयविश्वविद्यालयः, महेन्द्रगढम्
दिनाङ्कः – २७ नवम्बर २०२६
हरियाणाकेन्द्रीयविश्वविद्यालये संस्कृतविभागस्य सह-आचार्यस्य आदरणीयज्ञानेश्वरमहोदयस्य हार्दिकं स्वागतमभिनन्दनञ्च
महेन्द्रगढम्। हरियाणाकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागे सह-आचार्यपदे नियुक्तस्य आदरणीयस्य ज्ञानेश्वरमहोदयस्य विश्वविद्यालयपरिसरे अद्य हार्दिकं स्वागतम् अभिनन्दनञ्च कृतम्।
विश्वविद्यालयस्य कुलपतेः, विभागस्य प्राध्यापकानां, शोधच्छात्राणां, विद्यार्थिनाञ्च पक्षतः महोदयस्य पुष्पगुच्छैः, उत्तरीयेण च सम्माननं कृतम्। अस्मिन् अवसरे विभागाध्यक्षेण तथा अन्यैः प्राध्यापकैः महोदयस्य शैक्षणिक-अनुभवस्य, शोधकार्याणां, संस्कृतवाङ्मयस्य प्रति तस्य समर्पणस्य च भूरि-भूरि प्रशंसा कृता।
उपस्थितैः सर्वैः सदस्यैः विश्वासः प्रकटितः यत् आदरणीयस्य ज्ञानेश्वरमहोदयस्य मार्गदर्शनेन, पाण्डित्येन च विश्वविद्यालयस्य संस्कृतविभागः शैक्षणिक-अनुसन्धानयोः क्षेत्रे नूतनान् आयामान् प्राप्स्यति।
अन्ते आदरणीयः ज्ञानेश्वरमहोदयः सर्वेषां प्रति कृतज्ञतां ज्ञापयन् संस्कृतभाषायाः प्रचार-प्रसाराय तथा छात्राणां सर्वाङ्गीणविकासाय निरन्तरं कार्यं कर्तुं स्वसङ्कल्पं प्रकटितवान्।
प्रेषकः
जनसम्पर्क-प्रकोष्ठः / संस्कृतविभागः,
हरियाणाकेन्द्रीयविश्वविद्यालयः, महेन्द्रगढम्।
हरियाणाकेन्द्रीयविश्वविद्यालये संस्कृतविभागस्य सह-आचार्यस्य आदरणीयज्ञानेश्वरमहोदयस्य हार्दिकं स्वागतमभिनन्दनञ्च
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
