By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ड्रोन-सर्वेक्षणं कृत्वा सीमावेष्टनं करिष्यति लोकनिर्माणविभागः, अधुना धरातले भविष्यति काङ्गडा-विमानपत्तनस्य विस्तारकार्यं, सज्जता तीव्रा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > ड्रोन-सर्वेक्षणं कृत्वा सीमावेष्टनं करिष्यति लोकनिर्माणविभागः, अधुना धरातले भविष्यति काङ्गडा-विमानपत्तनस्य विस्तारकार्यं, सज्जता तीव्रा
हिमाचलवार्ता

ड्रोन-सर्वेक्षणं कृत्वा सीमावेष्टनं करिष्यति लोकनिर्माणविभागः, अधुना धरातले भविष्यति काङ्गडा-विमानपत्तनस्य विस्तारकार्यं, सज्जता तीव्रा

डॉ मनोज शैल
Last updated: 2026/08/28 at 10:38 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

ड्रोन-सर्वेक्षणं कृत्वा सीमावेष्टनं करिष्यति लोकनिर्माणविभागः, अधुना धरातले भविष्यति काङ्गडा-विमानपत्तनस्य विस्तारकार्यं, सज्जता तीव्रा

हिमसंस्कृतवार्ता: – काङ्गड़ा।

प्रदेशे विमानसम्पर्कं पर्यटनं च नूतनान् उच्चस्तरान् प्रति नेतुं समर्थस्य काङ्गडा-विमानपत्तनस्य विस्तारकार्यं अधुना धरातले वेगेन प्रवर्तते। भूम्यधिग्रहणस्य प्रभावितपरिवाराणां पुनर्वासस्य च सर्वाधिकां जटिलां प्रक्रियां पूर्णां कृत्वा अधुना प्रशासनम् अन्तिमचरणस्य सज्जतां तीव्रतया करोति। शीघ्रमेव लोकनिर्माणविभागः ड्रोन-माध्यमेन भूमेः मापनं कृत्वा सीमावेष्टनस्य (तारवेष्टनस्य) कार्यं प्रारप्स्यते, येन मुख्यनिर्माणकार्याणां मार्गः पूर्णतया प्रशस्तो भविष्यति। प्रशासनं सम्बन्धिताः च सर्वकारीयाः संस्थाः अधुना कर्गदीयकार्यविधिम् अतिक्रम्य पूर्णतया कार्यान्वयनस्य स्थितौ आगताः सन्ति। परियोजनायाः अग्रिमस्य महत्त्वपूर्णस्य च सोपानस्य अन्तर्गतं लोकनिर्माणविभागेन प्रस्तावितक्षेत्रस्य अत्याधुनिक-ड्रोन-प्रौद्योगिक्या सर्वेक्षणं करिष्यते।

अस्य सर्वेक्षणस्य मुख्योद्देश्यम् अधिगृहीतभूमेः वास्तविकभौगोलिकस्थितेः अवगमनं तस्याः सटीकसीमायाः निर्धारणं च अस्ति। ड्रोन-मानचित्रणस्य प्रतिवेदनं प्राप्तमात्रे एव विमानपत्तनविस्ताराय अधिगृहीतभूमौ सीमाङ्कनं कृत्वा सीमावेष्टनस्य कार्यं प्रारभ्यते। अनेन पदक्षेपेण न केवलम् अधिगृहीता भूमिः पूर्णतया सुरक्षितां भविष्यति, अपितु निर्माणकार्यस्य प्रारम्भाय स्पष्टं क्षेत्रमपि प्राप्तुं शक्यते। विमानपत्तनाय प्रस्तावितभूमेः स्थितिः सामान्यजनानाम् अपि स्पष्टा भविष्यति।

 

सुलभतराः उत्तमतराश्च विमानसेवाः

काङ्गडा-विमानपत्तनस्य अयं बहुप्रतीक्षितः विस्तारः सम्पूर्णस्य प्रदेशस्य कृते परिवर्तनकारी सिद्धः भविष्यति। विस्तारीकरणानन्तरम् अत्र बृहद्विमानानां सञ्चालनं सुगमतया भवितुं शक्यते, येन विमानयात्रिभ्यः प्रत्यक्षः लाभः भविष्यति तथा तेभ्यः सुलभतराः उत्तमतराश्च विमानसेवाः उपलब्धाः भविष्यन्ति।

 

उद्घाटिताः भविष्यन्ति जीविकाया: द्वाराणि

उत्तमविमानसम्पर्केन न केवलं स्थानीयपर्यटनव्यवसायाय नूतनं जीवनं प्राप्स्यते, अपितु क्षेत्रस्य आर्थिकविकासाय युवभ्यश्च जीविकाया: नवीनानि द्वाराणि अपि उद्घाटितानि भविष्यन्ति। विभागीयस्तरे अधुना सम्पूर्णां प्रक्रियां यथाशीघ्रं पूर्णत्वं नेतुं युद्धस्तरेन सज्जता प्रचलति।

You Might Also Like

संस्कृतदिवसविशेषः – पाणिनेः सूत्रेभ्यः ए.आई.-पर्यन्तं संस्कृतेः नूतनम् उड्डयनम्

हिमाचलस्य चामुण्डासंस्कृतमहाविद्यालये राज्यस्तरीयसंस्कृतमहोत्सवस्य कार्यक्रमः जिला-उपायुक्तस्य हेमराजवैरवा महोदस्य उपस्थितौ सम्पन्नः

अन्तिमावसरः; ‘दारिद्र्य-रेखात: अधस्तन’ (BPL) सूच्यां समावेशनार्थं योग्याः परिवाराः २० दिनाङ्कं यावत् कुर्वन्तु आवेदनम्

रोहितठाकुरः अवदत् — प्रदेशस्य ९,६१७ विद्यालयेषु प्रथम-कक्षायाः एव आङ्ग्ल-माध्यमस्य विकल्पः उपलब्धः

जलशक्ति-विभागे नियुक्ताः भविष्यन्ति ४,००० ‘बहुकार्य-कर्मचारिणः’, सदने मुख्यमन्त्रिणः उद्घोषणम्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article संस्कृतदिवसविशेषः – पाणिनेः सूत्रेभ्यः ए.आई.-पर्यन्तं संस्कृतेः नूतनम् उड्डयनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?