By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: केन्द्रीयसंस्कृतविश्वविद्यालये खादी-ग्रामोद्योगविषये संगोष्ठी वाद-विवादप्रतियोगिता च सम्पन्ना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > केन्द्रीयसंस्कृतविश्वविद्यालये खादी-ग्रामोद्योगविषये संगोष्ठी वाद-विवादप्रतियोगिता च सम्पन्ना
संस्कृतगतिविधयः

केन्द्रीयसंस्कृतविश्वविद्यालये खादी-ग्रामोद्योगविषये संगोष्ठी वाद-विवादप्रतियोगिता च सम्पन्ना

सत्येंद्र पाठक:
Last updated: 2026/08/24 at 9:26 PM
सत्येंद्र पाठक:
Share
2 Min Read
SHARE

केन्द्रीयसंस्कृतविश्वविद्यालये खादी-ग्रामोद्योगविषये संगोष्ठी वाद-विवादप्रतियोगिता च सम्पन्ना

हिमसंस्कृतवार्ताः — उत्तरप्रदेशसंस्करणम्।

केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे एकदिवसीया संगोष्ठी तथा वाद-विवादप्रतियोगिता च आयोजिते। कार्यक्रमस्य आयोजनं भारतसर्वकारस्य सूक्ष्म-लघु-मध्यम-उद्यम-मन्त्रालयान्तर्गतस्य खादी-ग्रामोद्योग-आयोगस्य लखनऊस्थितराज्यकार्यालयेन कृतम्।

कार्यक्रमस्य शुभारम्भः वैदिकमङ्गलाचरणेन दीपप्रज्वलनेन च अभवत्। ततः राष्ट्रपितुः महात्मागान्धिनः प्रतिमायां माल्यार्पणं कृत्वा तस्मै श्रद्धाञ्जलिः समर्पिता। कार्यक्रमस्य सञ्चालनं श्री आर.पी. विश्वकर्मणा कृतम्।

कार्यक्रमस्य प्रमुखोद्देश्यं छात्रेषु युवकेषु च खादी, स्वदेशी-उत्पादाः, ग्रामोद्योगः तथा आत्मनिर्भरभारतस्य भावना इत्येतेषु विषयेषु जागरूकतायाः संवर्धनम् आसीत्। वक्तृभिः महात्मागान्धिनः विचाराः, स्वावलम्बनम्, खादी, ग्रामोद्योगः तथा सामाजिकदायित्वं च विषयीक्रित्य विस्तरेण विचाराः प्रस्तुताः।

अस्मिन् अवसरे वक्तारः अवदन् यत् आत्मनिर्भरता तथा स्थानीयसंसाधनानां सदुपयोगस्य गान्धीवादी अवधारणा अद्यापि अत्यन्तं प्रासङ्गिका अस्ति। छात्राः स्वरोजगारस्य कौशलविकासस्य च दिशि अग्रे गन्तुं प्रेरिताः। स्थानीयसंसाधनानां पारम्परिकज्ञानस्य स्वदेशी-उत्पादानां च प्रोत्साहनेन ग्रामीण-अर्थव्यवस्थायाः सुदृढीकरणं रोजगारावसराणां च वृद्धिः सम्भवतीति वक्तृभिः प्रतिपादितम्।

कार्यक्रमे इन्क्यूबेटर-जूट-क्लस्टरस्य श्रीमती अञ्जलीसिंहः, NSCST HUP लखनऊस्य श्री रवि ओरानः, KVIC लखनऊस्य वरिष्ठकार्यकारिणी श्रीमती श्रुतिअग्रवालः, खादी-ग्रामोद्योग-आयोगस्य श्री कालीचरणप्रसादः, सहनिदेशिका श्रीमती दिव्या श्रीवास्तवा, कार्यकारी श्री आर.पी. विश्वकर्मा च उपस्थिताः आसन्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरस्य निदेशकः प्रो. सर्वनारायणझा तथा वरिष्ठाचार्यः प्रो. देवीप्रसादद्विवेदी च कार्यक्रमे विशेषरूपेण उपस्थितौ आस्ताम्।

वाद-विवादप्रतियोगितायां बी.ए. (ऑनर्स) संस्कृत एवं लोकसेवाध्ययनस्य छात्रौ रासबिहारी तथा प्रणवः प्रथमस्थानं प्राप्तवन्तौ। मेघनाशुक्ला तथा अञ्जलीकुमारी द्वितीयस्थानं, जाह्नवी तथा नेहा तृतीयस्थानं प्राप्तवत्यौ।

निबन्धप्रतियोगितायां प्रतीक्षामिश्रा तथा रूपालीसिंहः प्रथमस्थानं प्राप्तवत्यौ। सन्तोषझा तथा समृद्धिदेशपाण्डेयः द्वितीयस्थानं तथा आशीदूबे तृतीयस्थानं प्राप्तवान्।

परिसरनिदेशकः प्रो. सर्वनारायणझा अध्यक्षीयोद्बोधने अवदत् यत् खादी केवलं वस्त्रं न, अपितु स्वदेशी, स्वावलम्बनम् आत्मनिर्भरता च इति विचारधारायाः प्रतीकम् अस्ति। युवभिः शिक्षया कौशलेन च केवलं रोजगारप्राप्तेः दिशि न, अपितु रोजगारसृजनस्य दिशि अपि अग्रे गन्तव्यम्। खादी-ग्रामोद्योगः युवभ्यः स्वरोजगारस्य उद्यमितायाश्च प्रभावी माध्यमं भवितुम् अर्हतीति सः प्रतिपादितवान्।

तेन छात्राः महात्मागान्धिनः स्वावलम्बनस्य श्रमप्रतिष्ठायाश्च विचारान् स्वीकर्तुं प्रेरिताः। आत्मनिर्भरता राष्ट्रनिर्माणेन सम्बद्धं सामाजिकदायित्वमपि अस्तीत्यपि तेन उक्तम्।

कार्यक्रमे परिसरस्य वरिष्ठाचार्यः प्रो. भारतभूषणत्रिपाठी, प्रो. अवनीशअग्रवालः, डॉ. कृतिरस्तोगी, अन्ये प्राध्यापकाः तथा परिसरस्य छात्र-छात्राश्च उत्साहेन सहभागितां कृतवन्तः। कार्यक्रमस्य अन्ते परिसरनिदेशकेन विजेतृप्रतिभागिभ्यः प्रमाणपत्राणि पुरस्काराश्च वितरिताः। अध्यक्षीयोद्बोधनस्य धन्यवादज्ञापनस्य च अनन्तरं राष्ट्रगानेन कार्यक्रमस्य समापनम् अभवत्।

You Might Also Like

नैमिषारण्ये संस्कृतसप्ताहस्य शुभारम्भः, क्रीडया संस्कृतशिक्षणम्

अखिलभारतीयसंस्कृतपरिषदः प्रतियोगितायां प्रिया पाण्डेय प्रथमस्थाने

भारतीयज्ञानपरम्परायां शास्त्रार्थपरम्परा अतीव प्राचीना वैज्ञानिकस्वरूपा च — प्रो. कान्ताभाटिया

अखिलभारतीयसंस्कृतपरिषदि संस्कृतसप्ताहमहोत्सवः सम्पन्नः

एकविंशतिदिवसीयः ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य सम्पूर्तिसमारोहः सम्पन्नः

TAGGED: केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरः, खादी-ग्रामोद्योगविषये संगोष्ठी वाद-विवादप्रतियोगिता च सम्पन्ना
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article नैमिषारण्ये संस्कृतसप्ताहस्य शुभारम्भः, क्रीडया संस्कृतशिक्षणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?