By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ओडिशाराज्ये विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा आध्यात्मिकोत्साहेन समारब्धा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > ओडिशाराज्ये विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा आध्यात्मिकोत्साहेन समारब्धा
धर्मसंस्कृतिःराष्ट्रीयवार्ताः

ओडिशाराज्ये विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा आध्यात्मिकोत्साहेन समारब्धा

डॉ.अमनदीप शर्मा
Last updated: 2026/07/17 at 11:23 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

ओडिशाराज्ये विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा आध्यात्मिकोत्साहेन समारब्धा
हिमसंस्कृतवार्ता। ओडिशाराज्यस्य पवित्रायां पुरी-नगर्यां उत्कृष्टाध्यात्मिकोत्साहः वरीवर्ति । विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा धार्मिक-विधि-विधानैः अभूतपूर्व-सुरक्षा प्रबन्धैः च सह महता आध्यात्मिकोत्साहेन समारब्धा । गतप्रातःकालादेव तीर्थ-नगर्यां निरन्तरं जायमानां वृष्टिमतीत्य, लक्षाधिकाः श्रद्धालवः अविचलित-श्रद्धया मुख्यमार्गे एतत् पवित्रं दृश्यं साक्षात्कर्तुं उपस्थिताः । जय जगन्नाथ इत्याख्यैः गगनभेदी-जयघोषैः सह भगवान् जगन्नाथः, भगवान् बलभद्रः, देवी सुभद्रा, भगवान् सुदर्शनश्च पूर्ण-विध्यनुसारं स्व-स्व-रथेषु विराजिताः, अनेनैव सह पारम्परिकः पहाण्डी-बिजे इत्ययं कार्यक्रमः सम्पन्नः। अस्य विश्वप्रसिद्ध-महोत्सवस्य सुचारु-सुरक्षित-सञ्चालनाय सार्वत्रिकी सुरक्षा-व्यवस्था, जन-सम्मर्द-प्रबन्धनं सहैव आपत्कालीन-सज्जाः पूर्णरूपेण विहिताः ।
द्रौपदीमुर्मुः उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र-मोदी च देशवासिभ्यः हार्दान् शुभाशयान् प्रकटितवन्तः
हिमसंस्कृतवार्ता।ओडिशाराज्यस्य पुरी-नगरे भगवतः जगन्नाथस्य पावनी रथयात्रा समाचर्यते। अस्मिन् पुण्यावसरे राष्ट्रपतिपदासीना द्रौपदीमुर्मुः उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र-मोदी च देशवासिभ्यः हार्दान् शुभाशयान् प्रकटितवन्तः। अवसरेऽस्मिन् एकस्मिन् सन्देशे राष्ट्रपति-महोदया स्वबाल्यकालस्य संस्मरणानि प्रस्तुतवती । उपराष्ट्रपतिना प्रतिपादितं यत्, इयं पावन-रथयात्रा श्रद्धा-भक्ति-समानता-सामूहिक सद्भावानां मूल्यानि प्रदर्शयति । प्रधानमन्त्रिणा नरेन्द्रमोदिनापि अवसरेऽस्मिन् निगदितं यत् इयं रथयात्रा देशस्य शाश्वत-आध्यात्मिक-सांस्कृतिक-न्यायसस्य कश्चन प्रकाशमानः चिह्नो वर्तते ।

You Might Also Like

लोकतन्त्रस्य मर्यादा, विरोधिनः सम्मानं च : अटल-इन्दिरा-युगात् अद्यतन-राजनीतिं यावत्

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article लोकसभासनानां वृद्धिविधेयकम्: सर्वदलीयवैठकस्य आह्वानाय मल्लिकार्जुनखडगेमहोदस्य प्रेषितं प्रधानमन्त्रिणे पत्रम्
Next Article प्रेरकःप्रसङ्गः- स्वर्गः नरकः वयम् च
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?