By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्
राष्ट्रीयवार्ताःहिमाचलवार्ता

TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्

डॉ.अमनदीप शर्मा
Last updated: 2026/06/30 at 6:53 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।शिक्षक-पात्रता-परीक्षां (टी.ई.टी.) अधिकृत्य सुदीर्घकालात् प्रचलिता असमञ्जसस्थितिः अधुना भूयसा स्पष्टा संजाता। राष्ट्रियाध्यापक- शिक्षापरिषदा (NCTE) न्यायालये प्रस्तुते स्वशपथपत्रे स्पष्टीकृतं यत् २३ अगस्त २०१० तमवर्षात् पूर्वं नियुक्तेषु शिक्षकेषु टी.ई.टी. परीक्षायाः अनिवार्यता नैव प्रवर्तिष्यते। एतादृश्यां स्थितौ वर्ष २०१० तः पूर्वं नियुक्ताः सर्वेऽपि शिक्षकाः टी.ई.टी. परीक्षायाम् उत्तीर्णाः स्युः, एषा धारणा समीचीना नास्ति।
शिक्षकाणां मध्ये सुदीर्घकालात् एषः प्रश्नः उत्तिष्ठति स्म यत् किं पुरातनीषु नियुक्तिष्वपि टी.ई.टी. परीक्षायाः नियमः प्रवृत्तः भविष्यति। एन.सी.टी.ई. इत्यनेन स्वप्रतिज्ञापत्रे नियुक्तितिथेः आधारेण विभिन्नाः स्थितयः स्पष्टीकृताः।
३ सितम्बर २००१ तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः पूर्णसाहाय्यम्
शपथपत्रानुसारं ३ सितम्बर २००१ तमवर्षात् पूर्वं नियुक्ताः शिक्षकाः टी.ई.टी. परीक्षायाः सर्वथा मुक्ताः सन्ति। केवलं टी.ई.टी. परीक्षायाः अनुत्तीर्णतायाः आधारेण तेषां सेवायाम् नियुक्तौ वा कोऽपि प्रतिकूलः प्रभावः न भविष्यति। परिषदा स्पष्टीकृतं यत् पश्चात् प्रवृत्ताः पात्रतानियमाः पूर्वप्रभावेण प्रयोक्तुं न शक्यन्ते।
२००१ तः २३ अगस्त २०१० पर्यन्तं नियुक्तेषु शिक्षकेष्वपि टी.ई.टी. न प्रवर्तिष्यते
एन.सी.टी.ई. इत्यनेन एतदपि स्पष्टीकृतं यत् ३ सितम्बर २००१ तः २३ अगस्त २०१० तमवर्षस्य मध्ये नियुक्तेभ्यः शिक्षकेभ्यः अपि टी.ई.टी. परीक्षा अनिवार्या नासीत्, यतः तस्मिन् काले एषा व्यवस्था अस्तित्वे एव नासीत्। अतः तस्याम् अवधौ प्रवृत्तानां नियमानाम् अन्तर्गतं संजाताः नियुक्तयः वैधाः मन्स्यन्ते। शिक्षाक्षेत्रस्य विशेषाज्ञानां मन्यते यत् तस्मिन् काले ये नियमाः प्रभाविनः आसन्, तदाधारेण विहिताः नियुक्तयः पश्चात् प्रवृत्त- पात्रता- परीक्षया सह योक्तुं न शक्यन्ते।
२३ अगस्त २०१० तमवर्षात् परं टी.ई.टी. अनिवार्या
२३ अगस्त २०१० तमे दिनाङ्के एन.सी.टी.ई. इत्यनेन अधिसूचनां प्रसार्य प्राथमिक- उच्चप्राथमिकस्तरयोः शिक्षकाणां नियुक्तये टी. ई. टी. परीक्षा आवश्यकी पात्रता घोषिता आसीत्। एतस्मात् परं नियुक्तानां शिक्षकाणां कृते टी.ई.टी. परीक्षायाः उत्तीर्णता अनिवार्या मन्स्यते।
सहस्रशः शिक्षकेभ्यः लब्धं साहाय्यम्
एन.सी.टी.ई. इत्यस्य अस्य स्पष्टदृष्टिकोणस्य कारणेन प्रदेशसहित-देशस्य तादृशेभ्यः सहस्रशः शिक्षकेभ्यः साहाय्यप्राप्तेः आशा अस्ति, येषां नियुक्तिः टी.ई.टी. नियमात् पूर्वं संजाता आसीत्, ये च स्वसेवा-सुरक्षां प्रति असमञ्जसे आसन्।
एकदृष्ट्या नियमाः-
१. ३ सितम्बर २००१ तमवर्षात् पूर्वं नियुक्ताः शिक्षकाः- टी.ई.टी. परीक्षातः मुक्ताः।
२. ३ सितम्बर २००१ तः २३ अगस्त २०१० तमवर्षस्य मध्ये नियुक्ताः शिक्षकाः- टी.ई.टी. अनिवार्या न।
३. २३ अगस्त २०१० तमवर्षात् परं नियुक्ताः शिक्षकाः- टी.ई.टी. परीक्षा अनिवार्या।

You Might Also Like

कर्मचारिभ्यः वृत्तिभोगिभ्यश्च साहाय्यम् चिकित्सा-प्रतिपूर्ति-देयकानां राश्यर्पणाय सर्वकारेण २१२ कोटिरूप्यकाणि विमोचितानि – मुख्यमंत्री 

विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः

राष्ट्रपति: द्रौपदीमुर्मुः नवदेहल्यां राष्ट्रपतिभवने शौर्यपुरस्कारान् प्रदत्तवती

सर्वकारः पेट्रोल-डीजल-इन्धनयोः विक्रयणं वितरणं च नियन्त्रयतः अस्थायी-नियामक-उपायान् प्रत्यहृतवान्

‘चिट्टा’ मादकद्रव्य-तस्कराणां ७० लक्षरूप्यकाणां सम्पत्तिः कुण्ठिता (सीज), विलासिता-यानेषु, ट्रक्-याने, कार-याने, सुवर्णे, वित्तकोषसंख्यासु च आरक्षकदलस्य प्रक्रमः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article राष्ट्रपति: द्रौपदीमुर्मुः नवदेहल्यां राष्ट्रपतिभवने शौर्यपुरस्कारान् प्रदत्तवती
Next Article विकसितभारतस्य सङ्कल्पः अधिकं सुदृढः भविष्यति – अनुरागठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?