वाच्यकथा-: “वास्त्विकी सम्पदा” (असली विरासत)
तीव्रा वृष्टिः आसीत्। अमितः स्वमोटरयानं पार्श्वे अस्थापयत्, एकस्यां चायशालायां च अतिष्ठत्। चायपानं कुर्वतैव तस्य बाल्यकालस्य स्मृतयः नूतनाः अभवन्। पिता अस्मिन्नेव विटपे (ठेले) तिष्ठति स्म। सा एव हास्यमयी चर्चा, तान्येव वचनानि।
अमितः चायविक्रेतारं अपृच्छत्, “पितृव्य! मम पिता रामलखनमहोदयः अत्र चायपानं करोति स्म, किं स्मरति भवान्?”
चायविक्रेतुः नेत्रे अश्रुपूर्णे अभवताम्। “अहो! सः तु मम ग्रामस्य मित्रम् आसीत्। नगरं आनेता अपि स एव आसीत्। उक्तवान् आसीत् – ग्रामे किं वर्तते, चल नगरे आपणं स्थापय। अद्य अहं यत्किमपि अस्मि, तत् तस्यैव कारणात् अस्मि। कुत्र अस्ति सः? बहुदिनेभ्यः न दृष्टः।”
अमितः मन्दस्वरेण अवदत्, “मासद्वयात् पूर्वं हृदयघातेन (हार्ट अटैक) सः दिवंगतः।”
चायविक्रेता स्तब्धः जातः। ततः अवदत्, “वत्स! तव पिता देवतुल्यः आसीत्। मम द्वयोः पुत्र्योः विवाहे सः तूष्णीं दश-दश सहस्ररूप्यकाणि दत्तवान्। कदापि न कथितवान्, केवलम् अवदत् – पुत्री तु सर्वेषां सामान्या भवति।”
अमितस्य कण्ठः रुद्धः अभवत्। गृहं गत्वा सः मात्रे न्यवेदयत्। माता दीर्घं श्वासं जग्राह, अवदत् च, “वत्स! तव पिता अस्मभ्यं गृहं, धनं, प्रतिष्ठां च सर्वं दत्तवान्। परन्तु स्वस्य वास्त्विकीं अर्जनम् अस्मभ्यं कदापि न दर्शितवान्।”
”का सा कमायी माता?”
”पुण्यस्य अर्जनं वत्स! वित्तकोषधनं तु अत्रैव अवशिष्यते। सह गच्छति तु केवलं नाम। तव पिता धनवान् नासीत्, परन्तु हृदयस्य धनी आसीत्। वयं बन्धूनां पुरतः श्रेष्ठं भवितुं प्रयतन्ते स्मः, सः तु अपरिचितानां कृते महत् कार्यं कृत्वा गतः।”
अमितस्य नेत्राणि उन्मीलितानि अभवन्। पितुः कपाटात् एका पुरातनी दैनन्दिनी (डायरी) निष्कासिता। तस्यां दर्जनमितानि नामानि आसन् – कस्यचित् शुल्कं, कस्यचित् औषधं, कस्यचित् ऋणम्। अन्तिमे पृष्ठे लिखितम् आसीत्: “नाम्ने मा ददातु, आवश्यकतायै ददातु। यदि दक्षिणेन हस्तेन ददासि, तर्हि वामहस्तः अपि न जानीयात्।”
तस्मिन् दिने अमितः निश्चितवान् यत् पितुः वास्त्विकी सम्पदा (विरासत) धनं नास्ति, अपितु तस्य ‘दानशीलतायाः स्वभावः’ अस्ति। सः स्ववेतनस्य १०% भागं ‘पितुः पुण्यखाता’ इति नाम्ना पृथक् अकरोत्।
शिक्षा: पदं, धनं, गृहं च – एतत्सर्वं तव सम्पत्तिः अस्ति। परन्तु तव श्रेष्ठता, तव साहाय्यं, तव व्यवहारः च – एषा तव ‘सम्पदा’ अस्ति। सम्पत्तिः उत्तराधिकारिषु विभज्यते, सम्पदा तु पीढ़ीभ्यः स्मर्यते। वास्त्विकः धनी सः नास्ति यस्य वित्तकोषे कोटिरूप्यकाणि सन्ति, वास्त्विकः धनी तु सः अस्ति यस्य गमनान्तरं लोकानां नेत्राणि नम्राणि (अश्रुपूर्णानि) भवेयुः।
