By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ३० जून पर्यन्तं सीबीएसई- विद्यालयेषु भविष्यति शिक्षकाणां नियुक्तिः- मुख्यमंत्री सुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > ३० जून पर्यन्तं सीबीएसई- विद्यालयेषु भविष्यति शिक्षकाणां नियुक्तिः- मुख्यमंत्री सुक्खुः
हिमाचलवार्ता

३० जून पर्यन्तं सीबीएसई- विद्यालयेषु भविष्यति शिक्षकाणां नियुक्तिः- मुख्यमंत्री सुक्खुः

डॉ.अमनदीप शर्मा
Last updated: 2026/04/22 at 6:42 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

३० जून पर्यन्तं सीबीएसई- विद्यालयेषु भविष्यति शिक्षकाणां नियुक्तिः- मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता:- काङ्गड़ा।मुख्यमन्त्री सुखविन्दरसिंहसुक्खुमहोदयः काङ्गड़ा- जनपदस्य फतेहपुर-विधानसभाक्षेत्रे औद्योगिकक्षेत्रस्य निर्माणार्थं १० कोटिरूप्यकाणि प्रदातुं घोषणाम् अकरोत्। तेन उक्तं यत् ‘शाहनहर’ परियोजनायाः मुख्य-अभियन्ता-कार्यालयः, यः पूर्वं फतेहपुरतः मण्डीनगरं स्थानान्तरितः आसीत्, सः अधुना पुनः फतेहपुरे एव स्थापयिष्यते। मुख्यमन्त्रिणा क्षेत्रस्य महिलामण्डलेभ्यः २०-२० सहस्ररूप्यकाणां साहाय्यं तथा च ‘वजीर राम सिंह’ क्रीडाङ्गणस्य (स्टेडियम) जीर्णोद्धारार्थं ५० लक्षरूप्यकाणि प्रदातुम् अपि घोषणा कृता।
फतेहपुरस्य ‘जखबड़’ स्थाने आयोजितां विशालां जनसभां सम्बोधयन् मुख्यमन्त्री अवदत् यत् स्थानीयविधायकः भवानी सिंह पठानिया जनसेवार्थं सार्ध-द्विकोटिरूप्यकाणां (२.५ कोटि) वृत्तिं त्यक्त्वा राजनीति-मार्गं चितवान्। सः अवदत् यत् पठानिया स्वक्षेत्रस्य जनानां समस्याः सम्यक् जानाति तथा च तेषां विकासाय समर्पितः अस्ति।
आर्थिकस्थितेः विषये पूर्वतनसर्वकारस्य आलोचना
मुख्यमन्त्रिणा उक्तं यत् पूर्वतन-भाजपासर्वकाराय वर्तमानसर्वकारस्य तुलनायां प्रायः ६० सहस्रकोटिरूप्यकाणि अधिकानि प्राप्तानि आसन्। तेन सूचितं यत् पूर्वसर्वकाराय राजस्वहानि- अनुदानरूपेण ५४ सहस्रकोटिरूप्यकाणि तथा ‘जीएसटी’ (GST) प्रतिपूर्दिरूपेण १६ सहस्रकोटिरूप्यकाणि मिलितानि, यदा तु वर्तमानसर्वकाराय केवलं १७ सहस्रकोटिरूप्यकाणि एव प्राप्तानि। तेन आरोपः कृतः यत् पूर्वतनसर्वकारेण निविदाकारेभ्यः (ठेकेदारों को) लाभं प्रदातुं प्रायः एकसहस्रकोटिरूप्यकाणां व्ययेन भवनानि निर्मितानि, यानि अद्यापि रिक्तानि सन्ति।सः अवदत् यत् आर.डी.जी. (RDG) स्थगनेन प्रदेशस्य प्रतिवर्षं ८ तः १० सहस्रकोटिरूप्यकाणां हानिः जाता। भाजपा केवलं चर्चायै असम्बद्धानि वचनानि करोति, स च पक्षः आन्तरिकरूपेण पञ्चसु दलेषु विभक्तः अस्ति। तेन आरोपः कृतः यत् पूर्वतनसर्वकारस्य काले ‘हिमकेयर’ (Himcare) योजनायां अनियमनानि अभवन्, अत्र तु पुरुषाणाम् अपि ‘ओवरी’ (Ovary) शल्यक्रियाः दर्शिताः। राज्यसर्वकारेण अस्य प्रकरणस्य अन्वेषणाय आदेशाः दत्ताः।
शिक्षाक्षेत्रे विकास: तथा ३० जून पर्यन्तं नियुक्तयः
मुख्यमन्त्रिणा उक्तं यत् पूर्वतनसर्वकारस्य काले शिक्षायाः स्तरः पतितः आसीत् तथा च २०२१ वर्षे हिमाचलः गुणात्मकशिक्षायां २१ तमे स्थाने आसीत्। वर्तमानसर्वकारस्य प्रयासैः हिमाचलः अधुना देशे पञ्चमं (५) स्थानं प्राप्तवान्। सः अवदत् यत्
> गते वर्षात् प्रथम-कक्षायाः एव आङ्ग्लमाध्यमस्य आरम्भः कृतः।
> १५१ विद्यालयाः सीबीएसई (CBSE) पद्धतौ आनीताः।
> ३० जून दिनाङ्कपर्यन्तं एतेषु सर्वेषु विद्यालयेषु शिक्षकाणां नियुक्तिः पूर्णा भविष्यति, यदर्थं राज्यस्तरे चयनप्रक्रिया प्रचलति।
> सर्वकारः इच्छति यत् शुल्कस्य नाम्ना छात्रेषु कोऽपि भेदभावः न भवेत्।
स्वास्थ्यं ग्रामीण-अर्थव्यवस्था च-
मुख्यमन्त्रिणा उक्तं यत् प्रत्येकं विधानसभाक्षेत्रे ‘आदर्श-स्वास्थ्यसंस्थाः’ निर्मिताः। फतेहपुर- संस्थायाम् अष्ट (८) विशेषज्ञचिकित्सकाः उपलब्धाः सन्ति। ग्रामीण-अर्थव्यवस्थां सुदृढं कर्तुं सर्वकारः
प्राकृतिकोत्पादितां हरिद्रां १५० रूप्यकाणि प्रति किलोग्राम दरेण क्रेष्यति। गोदुग्धं ६१ रूप्यकाणि तथा माहिषं ७१ रूप्यकाणि प्रति लीटर दरेण क्रीणीते।
काङ्गड़ा-जनपदस्य ढगवारक्षेत्रे २०० कोटिरूप्यकाणां व्ययेन आधुनिक- दुग्ध- प्रसंस्करण- संयन्त्रं स्थाप्यते।
मत्स्यपालकेभ्यः ‘न्यूनतम- समर्थनमूल्यं’ प्रदास्यते। वर्षाकाले मत्स्यग्रहण-प्रतिबन्धे ३,५०० रूप्यकाणि ‘सम्मान राशिः’ दास्यते।
अनाथ-विवाहित-एकलनारीणां कल्याणम्
मुख्यमन्त्री अवदत् यत् सर्वकारः अनाथबालकानां, विधवा महिलानाम्, एकलनारीणां च कल्याणायापि कटिबद्धः अस्ति। अतिदरिद्रपरिवाराणां कृते ‘अपना परिवार- सुखी परिवार योजना’ इति आरब्धा, यस्याः अन्तर्गतं पात्राभ्यः महिलाभ्यः १५०० रूप्यकाणि प्रतिमासं पेन्शनं तथा ३०० यूनिट् पर्यन्तं निःशुल्का विद्युत् प्रदास्यते।
राज्ययोजनामण्डलस्य उपाध्यक्ष: भवानी सिंह पठानिया महोदय: सर्वकारस्य कृतज्ञतां प्रकटयन्तः अवदन् यत् नूतनसेतुनिर्माणेन क्षेत्रस्य विकासे महती सहायता भविष्यति। तेन उक्तं यत् फतेहपुरे बस-स्थानकस्य, ‘सिविल जज कोर्ट’ इत्यस्य तथा ‘लघु सचिवालयस्य’ कार्याणि वेगेन प्रचलन्ति।

You Might Also Like

हिमाचल-पञ्चायत-निर्वाचनम्- पञ्चायतानां मतदातासूचीनां विशेष-पुनरीक्षणस्य कार्यक्रमः निर्गतः

हिमाचल-प्रधानमन्त्री आवास योजना-: कथं भवेत् आवेदनम् ? का अस्ति पात्रता ? कथं लप्स्यते लाभ:?

हिमाचलप्रदेशे न भविष्यन्ति शिक्षकेषु सामान्य-स्थानान्तरणानि,

हिमाचले टोल-टैक्स’ विषये सङ्ग्रामः! हिमाचले वर्धितस्य ‘प्रवेशशुल्कस्य’ विरोधाय पञ्जाब-सीमायाम् मार्ग-अवरोधः

“यदि विधिक-बाधा न भविष्यति, तर्हि ३१ मई पर्यन्तं पञ्चायत-निर्वाचनं भविष्यति” – मुख्यमन्त्री सुक्खू:

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article HP ELECTION UPDATES- हिमाचलप्रदेशे नगर-निकायानां नगरनिगमानां च निर्वाचनस्य घोषणा, आचारसंहिता प्रवृत्ता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?